SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ महाकषिश्रीरामचन्द्रविरचित दर्पणस्ते हृदयम् । अनर्थ पुनरिममेतस्याः पितरावेव परमार्थेनावगच्छतः। ततः : किं तुभ्यमावेदयामि । मकरन्दः -(युवतीं प्रति) पृच्छन्नसंस्तुतो गोप्यमशक्तः कोपमावहन् । विरक्तां च स्त्रियं गच्छन् हास्यं कस्मै न यच्छति ? ॥१९॥ तथापि चिरसंस्तुतमिव मे भवत्यामन्तःकरण न किमपि कृत्याकृत्यमालोचयति । ततो यदि समुचितं तदा प्रकाशय व्यसनमात्मनः, विगणय मामात्मीयम् । यदि च विज्ञातव्यसनहेतुरहं न प्रतीकारमयत्नमादधामि तदानीमसारवा- . दिनमकुलीनं च जानीयाः।। युवतिः- (स्वगतम् ) 'ममावि एदम्मि केणावि कारणेण परमपिम्मभिभलं हिययं, ता कहेमि वसणं । भोदु दाव । (प्रकाशम् ) . सामत्थाभावेणं अकएसु पओयणेसु को रोसो ? । .. ___ वसहेसु दुद्धमहियं नएसु को नाम निव्वेओ? ॥२०॥ मकरन्दः - (साक्षेपम् ) कथं पुनर्व्यसननिवृत्तावस्माकं सामर्थ्याभावमवगच्छसि ?। युवतिः - अत्तणो अप्पडियारेण वसणेणं अवगच्छामि। मकरन्दः -भद्रे ! अनभिज्ञाऽसि महापुरुषव्यापाराणाम् । पणीकृतप्राणसम्पदां हि महौजसां किं नाम साध्यमसाध्यं वा ? । पुरुषः-महाभाग ! बाढमुपपन्नमभिहितवानसि । किमुत व्यसनमहार्णवनिमग्न इव मे भवानपि प्रतिभाति । कथमपरथा निर्जनप्रचारायामारामभूमौ निशीथसमये दस्युरिव निलीनस्तिष्ठसि ? । मकरन्दः-साधु विज्ञातवानसि, तथापि न त्वया व्यसनवृत्तान्तमहं प्रष्टव्यः। सुखं प्रकाश्यते दौःस्थ्यं प्राच्यमारूढवैभवैः । आरूढदौःस्थ्यैर्दुःखे न प्राचीनं वैभवं पुनः ॥२१॥ १ ममापि एतस्मिन् केनापि कारणेन परमप्रेमविह्वलं हृदयम् , तत् कथयामि व्यसनम् । भवतु तावत् । सामर्थ्याभावेन अकृतेषु प्रयोजनेषु को रोषः । - वृषमेषु दुग्धम् अहितं नयेषु को नाम निर्वेदः ? ॥ २ आत्मनः अप्रतीकारेण व्यसनेन अवगच्छामि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy