________________
मल्लिकामकरन्दनाटकम् । बन्धुले ! एषा युवयोः स्वामिनी विपद्यते (-इति ब्रुवाणोऽसिलतया कण्ठपाशं छिनत्ति ।)
(युवतिमूञ्छिता पतति, मकरन्दः वस्त्राञ्चलेनोपवीज्य हृदयं. संवाहयति । ततः प्रविशति सम्भ्रान्तः सचेटीकः पुरुषः ।)
पुरुषः - (निभृतमालोक्य) कथं भर्तदारिकाया वक्षसि विहितासनस्तस्करः कोऽपि नेपथ्यमाकर्षति ? भवतु, कृपाणेन मूर्धानमेतस्यापनयामि । (पुनर्विमृश्य) कथमन्धकारप्राग्भारेण स्त्री-पुंसयोविभागः कोऽपि लक्ष्यते । - चेटी-'ताय! मुंच मुंच सामिणिं, देहि मे पाणभिक्खं, गिण्ह आहरणाई ।
मकरन्दः-(उभौ प्रति) अ[न]वगतपरमार्थों युवां व्याहरतः। नाहं चौरो
जारो वा।
पुरुषः -तर्हि किमेतत् ? कथय ।
युवतिः-(चेतनामास्थाय स्वगतम् ) एस को वि आहरणलोहेण मह जीवियं अवहरिदुकामों तक्करो। (प्रकाशम् ) महाभाय ! गिण्ह एयाणि मे आहरणाई। अण्णं पि दे दविणजायं बहुयरमुवणयस्सं । करेहि एयाए असिधेणुआए कंठवीढम्मि जीविदेसकम्मं, जेण दुक्खमुक्खो होदि ।
मकरन्दः -भवतु, करिष्यामि कण्ठपीठे जीवितेशकर्म; किन्तु भुजपञ्जरपाशेन, न पुनरसिधेनुकया। - बन्धुला-महाभाय ! पसीय[दु] भयवं मम्महो । एदाए असंघडियाणुरू. वजीविदेसाए सह भट्टिदारियाए भोदु दे एवं जंपियं पमाणं ।
मकरन्दः -(पुरुषं प्रति) विधातुं सम्पदो हर्तुमापदश्च न निश्चयः ।
मनस्तु मे सदाऽप्यन्यदुःखसङ्क्रान्तिदर्पणः ॥१८॥ तत् कथय केनानर्थजातेन विह्वलीकृतेयं कण्ठपाशवैशसं कृतवती ।
पुरुषः-महाभाग ! यद्यप्यन्धकारे न कोऽप्याकारस्तवोपलक्ष्यते तथाप्यमुना कण्ठपाशच्छेदव्यापारेण महत्त्वशंसिना व्याहारेण ज्ञातमन्यदुःखसङ्क्रान्ति
१ तात ! मुञ्च मुञ्च स्वामिनीम् , देहि मे प्राणभिक्षाम् , गृहाण आभरणानि ।
२ एष कोऽपि आभरणलोमेन मम जीवितं अपहर्तुकामः तस्करः । महाभाग! गृहाण एतानि मे आभरणानि । अन्यद् अपि ते द्रविणजातं बहुतरमुपनेष्यामि । कुरु एतया असिधेन्वा कण्ठपीठे जीवितेशकर्म, येन दुःखमोक्षो भवति।
३ महाभाग ! प्रसीद[तु] भगवान् मन्मथः । एतया असङ्घटितानुरूपजीवितेशया सह भर्तृदारिकया भवतु ते एतद् जल्पितं प्रमाणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org