SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं युवतिः - 'एदं ज्जेव दाणि मे समीहिदं मंगलं । मकरन्दः - समीचीनमाह दुःखितेयं युवतिः । इदं कृत्यमकृत्यं वा काल-देशव्यपेक्षया । परासोरात्मजस्यापि दहनं मङ्गलक्रिया ॥१६॥ युवतिः - (सखेदम् ) 'दुत्था परवसा वाहिया य अंधा य पियविउत्ता य । कह नाम लहिज्ज सुहं ? न हुज्ज भयवं जइ कयंतो ॥१७॥ पुरुषः- भर्तृदारिके ! इदानीमनर्थसंसूचिका काऽपि ते मनोवृत्तिः । तदुत्तिष्ठ व्रजामः सौधम् । उपनयामि त्वां माता-पितृभ्याम् , तयोरन्तिके यदुचितं तद् विदध्याः। युवतिः - (सावहित्थं विहस्य) 'अज्ज ! सव्वओ वि भीरुआहिं अम्हारिसाहिं विलयाहिं कि पि अणत्थं कीरदि ?, ता किं अलीयसंभावणाहिं अत्ताणयं किले सेसि ?; वच्च, आणेसु कुदो वि पईवं। बंधुले ! तुम पि आणेसु दीहियाओ कमलाई, जेण मम्महं पूएमि। (उभौ निष्क्रान्तौ) मकरन्दः- एतौ ध्रुवमेतया कपटेन बहिः प्रवासितौ, तदहं सावधानो भवामि । अपि नामेयमाततायिनी किमप्यवाच्यमाचरेत् । - युवतिः- ( सहकारमूलमागत्य ) भयवं अणंग ! पडिवासरमाराहिएण वि तुमए न कि पि मे कदं पडिकयं । ता इयाणिं असरिसं साहसं कुणतीर सक्खी वि दाव हविज्जासु । (सहकारशाखायां कण्ठपाशमाबध्नाति । ) मकरन्दः - (तारस्वरम् ) हंहो पुरुष ! हेही पुरुष !, हला बन्धुले ! हला १ एतद् एव इदानीं मे समीहितं मङ्गलम् । २ दुःस्था: परवशा व्याधिताश्च अन्धाश्च प्रियवियुक्ताश्च । __कथं नाम लभेत सुखं ? न भवेद् भगवान् यदि कृतान्तः ॥ ..३ आर्य ! सर्वतोऽपि भीरुकाभिः अस्मादृशीभिः वनिताभिः कोऽपि अनर्थः क्रियते ? तत् कि अलीकसम्भावनाभिः आत्मानं क्लेशयसि ? व्रज, आनय कुतोऽपि प्रदीपम् । बन्धुले ! त्वमपि आनय दीधिकातः कमलानि, येन मन्मथं पूजयामि। ४ भगवन् अनङ्ग ! प्रतिवासरमाराधितेनापि त्वया न किमपि मे कृतं प्रतिकृतम् , तद् इदानीं असदृशं साहसं कुर्वत्याः साक्षी अपि तावद् भवः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy