SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । स्वैरमाचरिष्यति, तदहं विध्याप्य प्रदीपं द्वाराजिररोहिणः सहकारस्य तले तिरोदधामि । ( तथा करोति ) युवतिः - 'हला बंधुले ! किमज्ज विगयपईवुज्जोयं भयवओ गम्भहरं ? हीमाणहे ! कहं अंधयारे पूयं करिस्सं ?। मकरन्दः- किम् 'अद्य' इति ब्रुवाणा ध्रुवमियमन्यदा निशीथे समायाति ?। पुरुषः - भर्तृदारिके ! शतशो वासरेषु दृष्टपूर्वा ते भगवतः पञ्चवाणस्य प्रतिमाः ततो यथादृष्टस्मरणमवयवेषु विमुश्च विकचविचकिलस्रजः। युवतिः -(सखेदम् ) अज्ज ! सुहिदो सि तुमं, सुमरेसि सव्वं पि । अहं उण महादुक्खभारभिंभलमाणसा अप्पाणं पि न संभरामि । ता चिटुंदु पूओवगरणाई। मकरन्दः - ( साश्चर्यम् ) ईदृशेऽपि नेपथ्यप्रकारसंसूचिते महाविभवे महादुःखोपनिपातः ! दरिद्रः क्षुत्पिपासाभ्यां विना-ऽऽधि-व्याधिभिर्धनी। प्रायेण लोकः सर्वोऽपि शोकसङ्कुलमानसः ॥१४॥ युवतिः- (सानं प्रणम्य ) भयवं पंचबाण ! असरणस्स विहलरूवविहवस्स जणस्स सुणेहि विन्नत्तिं । एस चरम विन्नवीयसि । मकरन्दः - (साशङ्कम् ) 'अशरण' इति ब्रुवाणा निष्प्रतीकारमपायमात्मनः सूचयतिः 'चरमम्' इति च प्राणपरित्यागपिशुनं वचः । : युवतिः.... अणवरयं पूआहिं तुट्टो सि कहं पि जइ महं देव !। ___ रक्खिज्जसु ता मज्झं तरेवि एयारिसमणत्थं ॥१५॥ मकरन्दः- कः पुनरसावनर्थः ? यत्र प्राणपरित्यागोऽपि प्रियङ्करः । चेटी:- भट्टिदारिए ! केरिसा तुज्झ एरिसा निव्वेयगब्भिणी विन्नत्ती ? समीहिदं किं पि मंगलं पत्थेसु । १ सखि बन्धुले ! किमद्य विगतप्रदीपोद्दयोतं भगवतो गर्भगृहम् ? अहो कष्टं कथमन्धकारे पूजां करिष्यामि । २ आर्य! सुखितोऽसि त्वम् , स्मरसि सर्वमपि। अहं पुनः महादुःखभारविह्वलमानसा आत्मानमपि न स्मरामि । तत् तिष्ठन्तु पूजोपकरणानि । ३ भगवन् पञ्चबाण ! अशरणस्य विफलरूपविभवस्य जनस्य शृणु विज्ञप्तिम् , एष चरमं विज्ञप्यसे। ४ अनवरतं पूजाभिः तुष्टोऽसि कथमपि यदि मह्यं देव !। रक्षेः तद् मां दत्त्वा एतादृशमनर्थम् ।। ५ भर्तदारिके ! कीदृशी तव ईदृशी निवेंदगर्भिणी विज्ञप्तिः ? समीहितं किमपि मङ्गलं प्रार्थय। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy