SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित व्यापाराः परवञ्चनानि सुहृदश्चौरा महान्तो द्विषः । प्रायः सैष दुरोदरव्यसनिनां संसारवासक्रमः ॥१०॥ तथापि युतकारस्य पापध्वान्तान्धचेतसः। शक्रेऽपि रङ्कसङ्कल्पो द्यूतकर्मपराङ्मुखे ॥११॥ ( सपश्चात्तापम् ) तथाविधाया विशुद्धवंशोत्पत्तेस्तथाविधश्रुताध्ययनस्य तस्याश्च गुरूपदेशपरम्परायाः स एष दोषनिश्शेषमूलं महापुरुषगहितो व्यापारः फलमभूत् । तदहमेतस्य व्यसनपरम्परापात्रस्य पापीयसः स्वात्मनः शस्त्राभिघातेन कण्ठपाशप्रदानेन वा प्रायश्चित्तमाधास्यामि । यदि वा - प्रायश्चित्तं नये वृत्तिः श्लाघ्यमश्लाघ्यकर्मणः। शस्त्रादिभिस्तु पश्चत्वमाततायिविचेष्टितम् ॥१२॥ तत् तावदेतस्य सहकारशाखाकुलायनिलीनकोकिलाबन्दिवृन्दोघुष्यमाणवसन्तमहाराजावतारस्य विकाशिपाटलापटलगन्धसम्बन्धबन्धुरितगन्धवाहनिपीयमानपुरपुरन्ध्रीसुरतसम्परायखेदस्वेदाम्भसो मध्यमध्यास्य महोद्यानस्य त्रियामामेतामतिवाहयामि । प्रभातभूयिष्ठायां चास्यां द्यूतकारदृष्टिसञ्चारपरिहारेण किमपि स्थानान्तरमाश्रित्य कुलिनोचितमाचरिष्यामीति । ( पुरोऽवलोक्य ) कथमिदं दीप्रदीपप्रभाप्रकाशितं देवतायतनम् ? मध्ये च भगवतः पञ्चबाणस्य प्रतिमा ? । ( सविनयं प्रणम्य) शम्भु-स्वयम्भु-हरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकुम्भदासाः । वाचामगोचरचरित्रपवित्रताय । तस्मै नमो भगवते कुसुमायुधाय ॥१३॥ ( कर्ण दत्त्वा ) कथं मञ्जीरझात्कारः ? । (विमृश्य ) न तावदेतस्यां नगरदवीयस्यां कुहरविहरमाणकरालव्यालभीष्मायामारामभूमौ दस्युप्रचारसमुचिते च निशीथसमये मनुष्यकामिनीसञ्चारः सम्भवति । तदनेन वनदेवताचरणमञ्जीररवेण भाव्यम् । (ततः प्रविशति पूजापटलहस्तचेटीदत्तहस्तावलम्बा कृपाणपाणिना पुरुषेणानुगम्यमाना सर्वाङ्गीणाभरणा युवतिः । ) मकरन्दः - (विलोक्य ) निश्चितमियं दीपज्योतिषा मामवलोक्य न किमपि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy