SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् | सूत्रधारः-(सावष्टम्भम्) अत्रार्थे स्वयमेव कविना दुर्मेधसां मुखबन्धः कृतः । काव्यैर्यत्र कविप्रथा धनलवक्रीतैरपि प्राप्यते गुम्फक्लेशमुपासितुं कृतधियां कस्तत्र काले क्रमः ? । ग्रन्तस्तदपि प्रबन्धकुसुमान्याजन्म विद्यामहे कुप्यामो व्यसने चिरं विरचिते कस्मै परस्मै वयम् ? ॥८॥ ( नेपध्ये ) साधु भो भरत ! साधु, बान्धवोचितं समयोचितं श्रावितवानसि । सूत्रधारः - कथमेष मकरन्दनेपथ्यवाही भरतो भारतीमास्माकीनामनुमोदते । . नटः भाव ! वरस्वत्वरस्व, संरब्धाः सर्वतोऽपि रङ्गोपजीविनः, समुत्सुकोsहं मनःसमीहितामर्थसिद्धिमासादयितुं सामाजिकेभ्यः । [ सूत्रधारः - ] मार्ष ! मा त्वरिष्ठाः । सर्वाऽपि महती सिद्धिः क्लेशान्तरितसम्भवा । विद्यावधूटिमाप्नोति सोढा काय मनः क्लमान् ॥ ९ ॥ ( नेपथ्ये ) इयं पुनरुपश्रुतिरस्माकं वधूलाभपुरस्सरां महार्थसिद्धिसम्पत्तिं पिशुनयति । सूत्रधारः - मार्ष ! तदलं वाचां विस्तरेण । एहि, करणीयान्तरमनुतिष्ठामः ( इति निष्क्रान्तौ । ) - Jain Education International || आमुखम् || * ( ततः प्रविशति मकरन्दः ) मकरन्दः - परमार्थोऽयम् - "कुप्यामो व्यसने चिरं विरचिते कस्मै परस्मै वयम् ?"" न नाम द्युतकाराः सभिको वा प्रसह्य मां दूरोदर कर्मणि व्यापारयन्ति । तदत्र प्राचीनजन्मसहस्रोपार्जितानि दुष्कर्माण्येवापराध्यन्तिः न चाहम्, न च बाह्य लोकः । ( साश्चर्यम् ) कौपीनं वसनं कदन्नमशनं शय्या धरा पांशुला जल्पोऽश्लीलगिरः कुटुम्बकजनो वेश्याः सहाया विटाः । For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy