SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं विमुखान् महासुभटोत्साहदर्शनेऽपि अरोमाञ्चकञ्चकान् मातृ-पितृ-भ्रातृ-सुतविपत्तावप्यनार्द्रमानसान्, निर्व्याज सेवकेऽप्यस्वीकृतवात्सल्यान् पाषाणसुहृदो दुर्मेधसः । ( आकाशे ) २ किं बूथ ? भोः ! किमेताभिर्भणितिभिः ? अकुटिलमेव प्रकाशय विवक्षितमर्थम् । एष तहि श्रवणपरुषमप्यकुटिलमेव विज्ञापयामि - नीरसानां पुरो नाटयं दुर्जनानां पदातिताम् । ग्राम्याणां वाग्मितां कुर्वन् हास्यो ब्रह्माऽपि जायते ॥ ४ ॥ ( प्रविश्य सरोषः ) नटः - भाव ! सर्वतः प्रसिद्धवैदग्ध्यान् अशेषर सिकावतंसान् सभ्यमिश्रान् अलीकवाचालतया प्रकोपयसे । विमुञ्च बहुभाषिताम् । पर्यालोचय किमपि प्रबन्धमभिनयाय | सूत्रधारः - ( सभयम् ) मार्ष ! मा कोपी, अविज्ञातसभ्यप्रगल्भोऽहं भूयोभूयः प्रलपितवान् । विनाऽभिप्रायदौरात्म्यं नापराधोऽपि गर्हितः । आचार्यो वाणि-पाणिभ्यां ताडयन्नपि पूज्यते ॥५॥ प्रबन्धविशेषं पुनः प्रथममेव पर्यालोच्य सभ्यानुपस्थितोऽस्मि । कः पुनरसौ ? | नटः Jain Education International 1 सूत्रधारः विद्यात्रयीस निसर्गनदीष्णचेतसो निःशेषचक्रवर्त्तिचक्रचूडारत्नांशु पुञ्ज पिञ्जरितपादपीठस्य सप्तार्णवीकूलसङ्क्रान्तकान्तयशसः श्रीमदाचार्यचन्द्र [ ] शिष्येण प्रबन्धशतकारिणा रामचन्द्रेण विरचितं मल्लिका मकरन्दाभिधानं नाटकं नाटयितव्यम् । नट: - ( सावज्ञम् ) भाव ! प्रशमरसिकवैदुष्येण धर्मदेशनाविधानैकप्रगल्भवाचो वाचंयमाः शृङ्गार- हास्य-वीरप्रमुखरसमयानामनहीः खलु नाट्यप्रबन्धानाम् । सूत्रधारः - मार्ष ! साम्प्रतं ग्रामीणचातुरीवन्ध्यमभिदधासि । शमस्तत्त्वं मुनीन्द्राणां जानते तु जगन्त्यपि । जन्मैव दिवि देवानां विहारो भुवनेष्वपि ॥ ६ ॥ नट:- ( सरोषम् ) — परोपनीतशब्दार्थाः : स्वनाम्ना कृतकीर्त्तयः । निबन्धारोऽधुना तेन विश्रम्भस्तेषु कः सताम् ? ॥७॥ For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy