________________
॥ जिना जयन्तु जितमोहाः ॥ प्रबन्धशतकर्तृ - महाकवि - श्रीरामचन्द्रविरचितं मल्लिकामकरन्दनाटकम्
॥ ॐ नमः श्रीसरस्वत्यै ॥ मल्लिकाविशदां लक्ष्मी प्राप यः शिवसम्भवाम् । प्रत्यूहव्यूहतो मुक्तं तं जिनेशमुपास्महे ॥१॥ .
. . . . . (नान्द्यन्ते ) . सूत्रधारः -( सविनयमञ्जलिं मूर्धनि विधाय ) हंहो समाजलोकाः! क्षणमेकमवधानमाधाय सकलबाल-गोपालाङ्गनाहृदयसंवादिनीं विपश्चिच्चक्रवालचेतचमत्कारकन्दकन्दलनकादम्बिनीं समाकर्णयत वितीर्णसकर्णकर्णकोटरसुधाधारा-' भिषेका मदीयां विज्ञप्तिकामेकाम् -
पटुभिरपि नोपसर्पति चटुभिरयं निष्प्रयोजनो लोकः ।
तत् किमपि शिक्षणीयं प्रयोजनं येन जगतोऽपि ॥२॥ . तत् पुनर्जन्मसहस्रोपार्जितपुण्यनैपुण्यैनिःशेषसांसारिकप्रयोजनप्ररोहक्षमा भगवतीं लक्ष्मीमनुकूलितवद्भिर्भवद्भिः शिक्षितमेव । यतः -
द्वयं यस्य सम्पत्ति(त्ते)/जमाद्यमखण्डितम् । संसारकर्मणां लक्ष्मीः प्रशमः शिवशर्मणाम् ॥३॥ अतोऽहं लक्ष्मीलवलाभश्रद्धाग्रहिलान्तःकरणो निरन्तरावलोकनैर्नाटयदर्शनसुखविमुखानामपि भवतामाराधनाय प्रवृत्तोऽस्मि ।
(आकाशे कर्ण दत्त्वा) किमादिशत ? । वाग्मी खल्वसि, एतावतैव भवतो वाचां विलासेन वयमत्यन्तमामोदिताः । सत्यम् , न जानीमः प्रबन्धदर्शने किमपि भविष्यति ? इति ।
( सहर्षम् ) अपरां तहि विज्ञापनामेकामाकर्णयत - रसपीयूषपूरपूर्णचेतसः सुमेधसः पुरस्कृत्य महाकवयो नाट्यप्रबन्धानाबध्नन्ति । न पुमः कलगीतिकामिनीभ्योऽपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org