________________
पद्मसुन्दरविरचितं आसंसारनिपीतमोहमदिराघूर्मायमाणश्चिति । क्षुभ्यन्नभ्युदयत्यनात्मकबहिर्द्रव्यस्फुरद्व्यक्तिषु । : रागद्वेषबहिर्मुस्वस्य नियतं शुद्धात्मसंचेतनावाप्तिस्तस्य दवीयसी किमपरैयालकोलाहलैः ॥१५६ ।। चेदुश्चण्डितकर्मकाण्डविगमोच्चण्डीकृताखण्डित- । ज्ञानाडम्बरकाण्डकेन परतां वध्यैकभूमि नयत् । तद्विज्ञानधनाविभिन्नमहिमव्यक्तीकृतान्तलसत् . कल्लोलाब्धिरिव स्वभावभवने तिष्ठेत निर्व्याकुलः ॥१५७॥ अन्तर्मुखः समवरुद्धसमस्तमोहद्रोहः समेत्य पदवीमपदाधिरूढाम् । . अच्छोच्छलबहुलपुष्कलरङ्गसङ्ग- .. रङ्गत्तरङ्गमकराकरवन्ममज्ज ॥१५८॥ कुतश्चिदनुमानतः स्फुरति मेचकव्यक्तिता प्रमाणभवनात् कुतो भवदमेचकत्वं ततः । .. द्वयानुभवतः कचिल्लसति मेचकामेचकं । न किञ्चिदपि किञ्चिदुच्चकचकायमानं महः ॥१५९॥ जयति जयपताकीकृत्य, नित्यावबोधं स्वरसविसरमज्जच्चिच्चमत्कारसारम् । . अनुभवभवभावाभावभावप्रवृत्ती जगदजगदिवान्तर्यस्य नश्यत्यवश्यम् ॥१६॥ यः पाण्डित्यशि खण्डिपण्डितशिखाशेषे शिखण्डायते यो विज्ञानघनाघनाध्वनि तडिदण्डायते विस्फुरन् । उत्क्रामन्नय चक्र साधनविधौ यश्चक्रवर्ती विभुः व्याख्यातुं स किल प्रगल्भकुशलः श्रीज्ञानचन्द्रोदयम् ॥१६१॥ ब्रह्मज्ञानकलाविलासविलसद्वौकसलीनतालीनं दुर्धरधारया न सहते द्वैतं चिदञ्चत्विषा । ब्रह्म ब्रह्माणि मग्नमित्थमधुना गम्भीरबोधाम्बुधौ शब्दब्रह्म कुतश्चकास्ति परमब्रह्मण्यतीतं ततः ॥१६२॥