________________
ज्ञानचन्द्रोदयनाटकम् । यदुपाध्यायेन गुणग्राहीति विनीयमानबालकवत् । तद्गुणिनयादितरतस्तद्वालाध्यक्षवत् साक्षि ॥१४७॥ कर्तृनयेन रजकवद् रागादिविभावभावताकर्तृ । निजकर्म. क्तरजकाध्यक्षवदितरेण केवलं साक्षि ॥१४८॥ भोक्तृनयादहितहितान्नभोक्तृ रोगीव दुःखसुखभोक्तृ । इतरेण रोगपीडितचिकित्सिताध्यक्षवैद्यवत् साक्षि ॥१४९॥ स्थाणुभिन्नशिरोजातदृष्टिलब्धघनान्धवत् । क्रियानयादनुष्ठानसाध्यसिद्धिर्निरन्तरम् ॥१५०॥ ज्ञानेन चणकमुष्टिक्रीतश्चिन्तामणिः स्वगृहकोणे । वाणिज्यवद् विवेकप्रधानता साध्यसिद्धिरस्य मता ॥१५॥ द्वैताद्वैतानुवर्तिव्यवहरणनयाद् बन्धकाबन्धकाणुप्रायोग्याण्वन्तरान्तप्रचलदणुकवद् बन्धमोक्षस्य भावात् । स्यादद्वैतानुवर्तिद्वितयगुणयुतत्वाणुतावद् विशुद्धं सातत्यं बन्धमोक्षद्वयपथपथिकः केवलं निश्चयेन ॥१५२।। अशुद्धनयतो भवद्घटशरावमृण्मात्रवद् विशिष्टतरकारणाद् भवति। तच्च सोपाधिमत् । विशुद्ध नयतो न यद् गतविशेषमृण्मात्रवत् स्वभावनिरुपाधिमज्जयति निर्गतान्तर्महः ॥१५३॥ .. प्रत्येकान्तधर्मस्फुरितनयगणानन्तताचिन्त्यमानं क्षोरोदान्तर्निमज्जद्धवलमधवलं यामुनं गाङ्गमम्भः । अन्योन्यत्वाविरोधस्फुरितनयलसद्धर्ममात्रेण तद्वद् द्रव्यं द्रव्यैकधर्मादविवृतमचलामेचकाच्छस्वभावैः ॥१५४॥ युगपदखिलधर्मव्यापकानन्तनीतिस्फुरितसमयसम्यग्ज्ञानविज्ञायमानम् । यदि सकलसरिद्वाःपूरपूर्णेकवा.. रविवृतवदिव स्याद्वादतो मेचकं तत् ॥१५॥