________________
ज्ञानचन्द्रोदयनाटकम् ।
ज्ञानिनामुपरताखिलरागद्वेषविभ्रमविमोह विकल्पात् ।
तत् कुतो भवति बन्धनमेषां कर्मणस्तदनुयायि तदस्ति ॥ ११७ ॥
किमन्धा धावन्ति ध्वनिजनित विज्ञानविलसद्विकल्पैराकल्पं चिरपरिचिते कर्मणि रताः ।
इदानीमासाद्य प्रसभसहजव्यक्तिममलां
कुरुध्वं नैष्कर्म्याध्वनि विचरणं नित्यशरणम् ॥ ११८ ।
भोक्ता भुञ्जन्नैव कुर्वन्न कर्ता कर्माधीनापायतो नास्ति कर्म ।
ज्ञानी जानन्नात्मविज्ञानमात्रं
कर्ता भोक्ता तत्फलस्यास्ति नो वा ॥ ११९ ॥
व्यवहारनयावलम्बिनामिह निश्चायकरूपनिश्चयः । यदिदं निरुपाधिविग्रहे व्यवहारात्मनि तिष्ठतेऽधुना ॥ १२० ॥ ॥
केचिन्मोहनिरङ्कुशोद्धत धिया मत्ता इवायवः | स्वं सद्दष्टितया स्तुवन्ति सततं के ते वराकाः परे । तेषामुद्गतदृष्टिमोहविरसोद्गारादतः केवलं
तेऽन्तस्तत्त्वविचारशून्यहृदयाः सम्यक्त्वतत्त्वच्युताः ॥ १.२१ ॥
किल निरर्गलतापि मता न च
स्फुरितशुद्धदृशामपवादतः । विदितलौकिक एवं तदुत्तरं
स्पृशति नान्यतमः कतमोऽधमः || १२२ ॥
संन्यस्ते सर्वकर्मण्युपरत विकलज्ञान मिथ्यान्धकारे प्रभ्रष्टे दुष्टचेष्टाकुलिततरलिते विभ्रमे संभ्रमेण । उद्भिन्नं शुद्धधामादभुत चकित चमत्कारकारिप्रभान्तव्यक्तिप्राग्भारभारोद्गत सहजर सोन्मज्जदुद्गच्छदच्छम् ॥ १२३॥
११७= आत्म श्लोक १२४-१२५ ( पृ० २५० ) ।
४५