SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ पद्मसुन्दरविरचितं सदृष्टेः खलु मङ्गलाय मरणं प्राक्कर्मणः शातनात् यद् गत्यन्तरसङ्क्रमेण पुरतो वेद्यं तदत्रैव हि । तस्मान्मे परमात्मनः परतरा संशुद्धिरस्तु स्वयं न स्यादामघटस्य किं हुतभुजः पाकोऽर्थसंसिद्धये ॥१२४॥ अथ कथं कथमप्यवतारिते सहजभूमिमितः परमात्मनि । पुनरनेकनयाङ्कितलक्षणं किमपि तस्य मनागपि चिन्त्यते ॥१२५॥ दिव्यज्ञानानन्दकन्दायमानं शुद्धात्मानं चिच्चमत्कारमात्रम् । पश्यन्त्यन्तज्योतिरुद्गच्छदच्छं ध्याता ध्येयं वस्तु वस्तुस्वरूपम् ॥१२६।। चैतन्यसामान्यनिमग्नधर्माधिष्ठातृकं द्रव्यमनन्तशक्ति । प्रमाणपूर्वानुभवप्रमीयमाणं स्वसंवेयरहस्यगम्यम् ॥१२७॥ , ययेकान्तनयावलम्बनपरज्ञानेन वस्तुस्थितिः प्रस्तूयेत तदा न वस्तु परतो भिन्न परिच्छिद्यते । स्याद्वादेन पुनः प्रमाणयति यः स्वां वस्तुवृत्ति स्वतो ज्ञानीभूय न मुह्यति स्वपरतो भेदादतः स्तूयते ॥१२८॥ चिन्मानं पटमात्रवत् तदखिलं द्रव्यार्थिकन्यायतः पर्यायार्थनयेन तन्तुमितिवद् दृग्ज्ञानमात्रं स्फुरत् । स्यादस्तित्वनयादयोमयधनुर्ध्यावर्तिलक्ष्योन्मुखस्वस्थाजिह्मगवद्यदस्ति निजद्रव्यादिसम्पत्तितः ॥१२९॥ स्यान्नास्तित्वनयादनायसधनुावर्त्यलक्षोन्मुखास्वस्थाजिमगवन्न चास्ति परतो द्रव्यादिभिर्नास्तिवत् । तद्वद् द्वैतनयक्रमान्निजपरद्रव्यादिभिर्दै तवत् तत्त्वावाच्यनयेन पूर्वशरवद् वाच्यं न चैकक्षणम् ॥१३॥
SR No.520756
Book TitleSambodhi 1977 Vol 06
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1977
Total Pages420
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy