________________
पद्मसुन्दरविरचितं विकल्पगहनभ्रान्तश्चतुर्गतिपथस्थितः । रागद्वेषवशः पान्थस्तृष्णावान् मुह्यते न किम् ॥११०॥ तारतरामलमोहविलासः शुद्धतमोद्धतबोधविशुद्धः । मन्जितमूर्तिनिरञ्जनपुञ्जः कस्य चमत्कुरुते न हि चेतः ॥१११॥ उद्धतमोहतमोहननार्कः किल्बिषभोगिनियन्त्रणमन्त्रः । तल्पितकल्पितजल्पविकल्पः कस्य चमत्कुरुते न हि चेतः ॥११२॥ चिद्गतरङ्गतरङ्गितरङ्गः शुद्धसुधारसपूर समुद्रः। ज्ञानघनौषधनाघनकल्पः कस्य चमत्कुरुते न हि चेतः ॥११३॥ सर्व कर्मोशन्ति सर्वज्ञदेवा बन्धस्यैतत् साधनं साधु नैव । तस्मात् सर्वं तन्निषिद्धं विरुद्ध मोक्षोपाये कारणं ज्ञानमेव ॥११॥ मग्नास्ते कर्ममुढाशयविवशलसभेदविज्ञानहीना मग्नास्ते ज्ञानिनोऽपि स्वयमहमिकया च्छन्दमन्दोधमा ये । ज्ञानी भूत्वा समन्तादुपरि परिगता विश्वविश्वस्य साक्षात् कर्मव्यासात् प्रमादाचरणविरहिताः सन्ततं ते तरन्ति ॥११५॥ पुण्यापुण्यमिति द्वयं च सदसद्वेद्यं हि कमैव तद् न्यक्कारात् किल कर्मणो निगदितो मोक्षो मुमुक्षोरिह । तन्नैष्कर्म्यविधिप्रधावितनिजाधीनप्रधानात्मज
ज्ञानं मोक्षमुपानयत्यलमलं वैकल्पिकैः कर्मभिः ॥११॥ ११४-आत्म श्लोक १०४ (पृ २२०)। ११५-आत्म श्लोक २ (पृ० २३३)। ११६-आत्म श्लोक १०५ (पृ० २२०)