________________
ज्ञानचन्द्रोदयनाटकम् । ज्ञानिनां ज्ञानकर्ताऽयमात्माऽन्यत्वस्य न क्वचित् । व्यवहारविमुग्धानां परभावस्य कारकः ॥१०१।। विज्ञानजनिताः सर्वे ज्ञानिनां प्रस्फुरन्ति ये । अज्ञानजनिता भावाः स्फुरन्त्यज्ञानिनामिह ॥१०२॥ यो मुक्त्वा नयपक्षपातमखिलं हित्वा विकल्पावली निक्षेपक्षपणेन विप्लुतपरद्रव्यादिभेदभ्रमः । अस्ता वस्तुसमस्तसंस्तुतिकथा विस्तारदौविध्यतो निद्वन्द्वं भजते स्वरूपपरमब्रह्मैकधामाद्भुतम् ॥१०३॥ यत्र प्रमाणनयदुर्नयवाक्प्रपञ्चनिक्षेपचक्रकथनक्रममस्तमेति तच्चिच्चमत्कृतिनिरूपितरूपरम्यं धामाद्भुतं जयति निर्वचनीयमुद्यत् ॥१०४।। कर्म कर्मणि लसत्यपि कर्ता कर्तरि द्वयमिति प्रतिषिद्धम् । अस्तु वस्तु नियतं नियतात्मव्यञ्जितं विदि चिदुच्छलनेन ॥१०॥ ज्ञानमस्ति विदि नाविदि विद्वन् कर्म कर्मणि च. कर्तरि कर्ता । किं करोति न करोति च कः किं ज्ञानवानुपरतः परभावात् ॥१०॥ ज्ञानिनामपि महानिह मोहो मोहयत्यहमिहेति विकल्पात् । तत् कुतो भ्रमवतामवकाशोऽज्ञानिनामहितहेतुविमोहात् ॥१०७॥ चिद्विवर्तितनिवर्तितभिन्नद्रव्यसंवलनमुदलनेन । चिन्महश्चिति चिदुच्छलनान्तःपातिनातिचरति क्रमभूमिम् ॥१०८॥ ज्ञातगुप्तिपरिवर्तितवृत्तिव्यज्ञिताजनवियुक्तमयुक्तम् । पुद्गलादिभिरविभ्रमभावा
दात्मसादलमलंचरिकर्ति ॥१०९॥ १०० आत्म श्लोक ६० (पृ० १६१)। १०१ आत्म xलोक ६२ (पृ० १६२) । १०२=आत्म श्लोक ६६ (पृ० १९२)। १०३=आत्म श्लोक ७० (पृ० २०२)। १०५-१०६-आत्म लोक ९९ (पृ०२११)