________________
पद्मसुन्दरविरचितं
.
आत्मव्यज्ञकशब्दपुद्गलमिलच्चेतःप्रवृत्ति स्फुरद्भेदज्ञानविधानसाधकतमप्रव्यक्तियुक्तः पुमान् । ज्ञप्तिस्तत्परमागमादपि भवेत् तस्मादुपात्तश्रतः संशेते न परप्रवादवचनैः स्वामात्मशुद्धिं दधत् ॥९॥ ज्ञानज्योतिः स्फुरति परमार्थे न मे तावदासीत् । मासीदामि स्वजनजननात्मा ममानादिबन्धुः । भास्मन्नाधं जनकजननीपुत्रमित्रं कलत्रं त्वामुद्भिन्नं सपरमपरं न त्यजामि त्यजामि ॥९५।। त्वमेव चरणं ममाचरणमप्युदग्रं तपः त्वमेव मम दर्शनं त्वमवबोधरूपं मम । व्रतं समितिगुप्तिभिः सहितमन्तरङ्गश्रुतं त्वमेव भगवांश्चिदुल्लसिततत्त्वमत्यद्भुतम् ॥१६॥ ज्ञातृज्ञेयपरत्वतत्त्वविलसत्पाण्डित्यशौण्डः परद्रव्यान्तर्बहिरङ्गसङ्गतिपरित्यागात् स्वरूपे स्थितम् । . तादृग्गुप्तसुषुप्तकल्पविदितान्तस्तत्त्ववृत्त्या मनाम् अप्यासक्तिमनानयन्नुपरतश्चिद्रूपमुन्निद्रयेत् ॥९७॥ जानन्तोऽपि न जानन्ति भेदज्ञानपराङ्मुखाः । जानन्त एव जानन्ति परमात्मानमव्ययम् ।।९८॥ अज्ञानप्रविज़म्भणेन तमसा रज्जौ भुजङ्गभ्रमस्त्वज्ञानेन मरीचिकासु हरिणा धावन्ति पाथोधिया । अज्ञानेन विमोहितैकमनसां स्थाणौ मनुष्यभ्रमो वातोद्वेलितवार्धिवद्धि मृशतां चेतो विकल्पीयति ॥९९।। विज्ञानेनोष्णत्वमग्नेरिवाऽपां शैत्यं सौरभ्यं लसत्पङ्कजानाम् । चैतन्योऽयं धातुरच्छस्वभावः कर्मस्पन्दादेति कर्तृत्वभावम् ॥१०॥ ९५=तदी३.२ । ९९=आत्म श्लोक ५८ (पृ० १६१)