________________
ज्ञानचन्द्रोदयनाटकम् । नाहं परेषां न च मे परे स्युः ममायमात्माऽस्य यतोऽहमस्मि । स्वस्वामिसम्बन्धमपास्य शुद्धज्ञानकपुञ्जोऽहमतो न किञ्चित् ॥८७॥ शुद्धात्मानमनाद्यनन्तमचलं सदर्शनालङ्कृतज्ञानातीन्द्रियरूपचिद्गुणमनालम्बं परद्रव्यतः । व्यक्तं सद् ध्रुवमन्यदध्रुवमिति स्वद्रव्यमव्यञ्जितान्यद्रव्यं निजधर्मताविभजनादेकं परेभ्यः पृथक् ।।८८॥ इत्थं शुद्धनयोद्धतध्वजपटो धुन्वन् परद्रव्यतो- ...। दञ्चरेणुकदम्बकं चलचलच्चिन्मन्दवाताहतः । दृग्ज्ञानाङ्कितसौधशेखर शिखालब्धप्रतिष्ठस्तरामानिष्कम्पचिदङ्कचारुमरुतः सानन्दमानन्दतात् ॥८९॥ रागद्वेषमुदस्य दस्युयुगलं तन्मूलमुन्मूलयन् सर्व वैषयिकं ततोऽधिकरणद्रव्यान्तराभावतः । क्षीराम्भोनिधिमध्यकेवलचलपोतस्थपत्रीव शुद्वात्माऽनन्यशरण्यपुण्यमनसो रोधाच्चिति स्थास्यति ॥९॥ प्रवर्ते शुद्धात्मन्यनवरतमत्यन्तविगमात् समस्ताकृत्यानां समरससमारब्धसहजः । स्वभावस्वादुत्वान्मम न ममताऽस्ति क्वचन प्रवृत्तः स्वं सर्वकषनिकषमन्तर्गतमहः ॥९॥ उत्कीर्णलिखितकीलितमज्जितमूर्छितचिदङ्कबिम्बितवत् मुद्रितचकितचमत्कृतरूपः शुद्धात्मनः स्वभावोऽहम् ॥९२॥ भूतैर्भाविभवद्भिरभ्युपगतं पर्यायभेदैः स्फुरज्ज्ञेयज्ञानविवेचकत्वसमुपात्तं वैश्वरूप्यं स्पृशत् । शुद्धानन्तचिदुच्छलत्कलनया यत्रैक्यरूप्यं महागाधाबाधगभोरधीरमहिम स्वं संप्रपद्ये स्वयम् ॥९३।। ८७-प्रसा २.९९, तदी २.९९ । ८८-प्रसा २.१००, तदी २,१००। ९०=तदी २.१०४। ९१-९३=तदी २.१०८।