SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ४० पद्मसुन्दरविरचितं षड्जीवनिकाया ये जीवादन्ये च ते परद्रव्यम् । स्वद्रव्यमेक एव स्वयमात्मा चिच्चमत्कृतः सततम् ॥७९॥ अहमिदमस्मि ममेदं भवति भविष्यति ममान्यदप्यासोत् । मोहादिहाध्यवस्यति मूढः स्वपरभावदुरभिज्ञः ॥८॥ आत्मा कर्ता स्वस्वभावस्य तावत् कर्ता नायं सर्वभावान्तराणाम् । नैवादत्ते नापि मुञ्चत्यचित्त्वं मूर्तत्वान्तर्वर्तमानोऽप्यमूर्तः ॥८१॥ परिणमयिता यो यस्यास्ति स्वयं स तदाश्रयात् स्फुरति तदुपादाने हानेऽयसो हुतभुग यथा । मिलित इव यः कर्माश्लेषैः पुराणपुमानयं स्फुटमुपरतो हानादानादिवेति तदद्भुतम् ॥८२॥ यद्धाराधरतोयसिक्तधरणीसम्पर्कतः पुद्गलाः तन्नीरन्ध्रसिलिन्ध्रभेक बलभिद्गोपादिभिभूरिभिः । भावस्तु स्वयमेव ते परिणमन्त्येवं पुराणः पुमान् रागद्वेषवशीकृतोऽशुभशुभैर्भावैः परीस्पृश्यते ॥८३॥ निष्कषायमिव नाम्बरं यतो याति रञ्जनमिदं निरञ्जनम् । तत्कषायपरिघोलनाहते रङ्ग एव लुठताद् बहिर्बहिः ॥८४॥ साध्यस्य साधकतमः पुनरत्र शुद्धद्रव्यस्य शुद्धनय एव न चेतरस्तु । प्रद्योतयेदथ हिमद्युतिमङ्गभासा प्राग्भार एव न च चन्द्रकलङ्कपङ्कः ।।८।। यदशुद्धनयाधीनद्रव्यं स्यात् तदशुद्धिमत् । परद्रव्येषु कुर्वाणो ममतां कुपथानुगः ॥८६॥ ७९-प्रसा २.९०, तदी २.९० ८०-प्रसा २.९१, तदी २.९१/ ८१=प्रसा २.९२९३, तदी २.९२-९३। ८२=तदी २.९३। ८३-तदी २.९५ । ८५% तदी २.९७) ८६-प्रसा २.९८, तदी २.९८।।
SR No.520756
Book TitleSambodhi 1977 Vol 06
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1977
Total Pages420
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy