________________
ज्ञानचन्द्रोदयनाटकम् । जीवपरिणाममात्र बहिरङ्ग साधनं समाश्रित्य । कर्मतयाऽणुस्कन्धाः संहन्यन्ते न कर्मकर्ताऽहम् ॥६८॥ देहान्तरसङ्क्रमणं जायन्ते कर्मतागताणुचयाः। स्वीकृत्य जीवपरिणतिमात्रनिमित्तं ततो न तनुकर्ता ॥६९॥ रसरूपगन्धवर्जितमशब्दमव्यक्तचिद्गुणमनन्तम् । जीवमलिङ्गग्रहणं संस्थानातीतमात्मना ध्यायेत् ॥७०॥ रूपातीतनिरञ्जनपरमात्माऽहं न चास्ति मम बन्धः । रागद्वेषादिभवः सम्बन्धो बन्धसाधकः सोऽस्तु ॥७१।। शुद्धोपयोगिजीवः स्फटिकमणिरिवास्ति सोपरक्त भावात् । नीलादिपरप्रत्ययभावैर्बध्नाति बन्धमनवरतम् ॥७२॥ रागद्वेषविजृम्भितमोहप्रभवेन येन भावेन । पश्यति जानाति ततः सम्बध्यते सोपरागहेतुवशात् ॥७३॥ स्निग्धादिस्पर्शरसरकत्वगतः स पौद्गलो बन्धः । मोहादिकपर्यायैर्जीवस्य तथोभयोरुभयबन्धः ॥७॥ पुदगलकाया जीवप्रदेशकेषु स्फुरत्यपरिस्पन्दात् । तिष्ठन्ति प्रविशन्त्यपि गच्छन्त्यपि ते स्वयं च बध्यन्ते ।।७।। बध्यते रागपरिणत एवाऽऽगतकर्मणा न वैराग्ये । न च मुच्यतेऽनुरक्तोऽमुक्तश्विरसञ्चिते न च विरक्तः ॥७६॥
ननु परिणामाद् बन्धः स च रागद्वेषमोहभावयुतः । मोहद्वेषावशुभौ शुभोऽशुभो वा भवति रागः ।।७७॥
परिणामोऽपि द्विविधो द्विधा विशिष्टः परोपरक्तत्वात् ।
अविशिष्टोऽनुपरक्तः परेषु स च सकलबन्धविध्वंसी ॥७८॥ ६८=तदी २.७७। ६९-प्रसा २.७८, तदी २.७८) ७० प्रसा २.८०, तदी २.८०।
७१-तदी २.८२। ७२-तदी २.८३। ७३ असा २.८४, तदी २.८४। ७४ प्रसा . .. २.८५, तदी २.८५। ७५-प्रसा २.८६, तदी २.८६। ७६-प्रसा २.८७, तदी २,
८७॥ ७७-प्रसा २.८८। ७८-तदी २.८९। . ...