SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ३८ पद्मसुन्दरविरचितं इदमेवात्र तात्पर्य शुद्धये परमात्मनः । व्यवहारनयं हित्वा शुद्धनिश्चयमास्यताम् ॥५८॥ अन्तस्तत्त्वविवेचनेन च परद्रव्याद्यपाधौ बलाद् उद्यमोहमपोह्य चिद्गुणलसच्छुद्धात्मप्तसिद्धये । तं सद्भावनिबद्ध मुद्धतनिजद्रव्यस्वभावोदयप्राग्भारेण परात्मता विभजनं प्रत्युद्यतो वल्गति ।।५९॥ आत्मा यधुपयोगवानथ स च ज्ञानं तथा दर्शनं चैतन्योभयरूपतोऽशुभशुभोऽशुद्धो द्विधा भिद्यते । शुद्धो निगुणनिर्विकारसहजानन्दात्मकस्यात्मनः सद्भावस्तदभावतोऽभ्युगतः स्यात् सोपरागः सदा ॥६॥ सर्वत्र परद्रव्ये मध्यस्थोऽहं भवामि निर्मुक्तः । आत्मन्युपयोगात्मनि नित्यं तिष्ठामि निश्चले महसि ॥११॥ न मनों नाहं देहो न चापि वाण न कारणं तेषाम् । कर्ता न न कारयिता कर्तृणां नानुमन्ताऽस्मि ।।६२।। पुद्गलमयो न चाहं मया न ते पुद्गलाः कृताः पिण्डम् । देहोऽहं न च तस्मादथ कर्ता तस्य देहस्य ॥३३॥ परमाणुप्रदेशः प्रदेशमात्रः स्वयं च यदशब्दः । रूक्षो यदि वा स्निग्धो द्वयादिकतामनुभवत्यसौ नाहम् ।।६४॥ एकोत्तराधनन्तावसानपरिणामिताणुवैचित्र्यात् । स्निग्धत्वं रूक्षत्वं परिणमति न चाहमस्मि तत्कर्ता ॥६५॥ द्विचतुर्गुणयोरुभयोस्त्रिपञ्चगुणयोस्तु मिश्रयोरथवा । बन्धप्रवृत्तिरेषा परमाणो हमस्मि तद्रूपः ॥६६॥ अञ्जनपूर्ण समुद्गकतुल्यः पुद्गलनिकायचयनिचितः । लोकस्तद्दलिकानां नाऽऽनेताऽहं पुराणपुरुषोऽस्मि ॥६७।। ५८% तदी २.५९ । ५९ % तदी २.६२।६०-प्रसा २.६३, तदी २. ६३। ६१ तदी २.६७। ६२-प्रसा २.६८। ६३-प्रसा २.७०। ६४प्रसा २.७१। ६५-प्रसा २.७२. तदो २.७२। ६६-तदी २.७४/ ६७-तदी २.७६।
SR No.520756
Book TitleSambodhi 1977 Vol 06
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1977
Total Pages420
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy