________________
ज्ञानचन्द्रोदयनाटकम् ।
तत्त्वविप्लव भयादिह कश्चिद् वृत्तिमानपि तदाश्रयभूतः । सप्रदेश इममाश्रयणोयो नाप्रदेशमनुगव्यतिरेकौ ॥४९॥
ततः प्रदेशमात्रं हि तद् द्रव्यसमयं यतः । पर्यायसमयः सिद्धचेत् तदतिक्रामतस्त्वणोः ||५०॥ एकेनैव प्रदेशेन वर्तते प्रथमं ततः । अन्येनान्यतरेणापि प्रदेशेन ततो मतः ॥ ५१॥ स तिर्यक्प्रयोऽप्यूर्ध्वप्रच योभूय केवलम् । व्यवस्थापयति द्रव्यं तत्प्रदेशेकमात्रया ॥ ५२ ॥ तत् तिर्यक्प्रचयस्योर्ध्वप्रचयत्वमनिच्छता । द्रव्यं प्रथमतः स्थाप्यं प्रदेशमितमञ्जता ॥ ५३ ॥ . आकाशादिसमग्र लोकमखिलज्ञेयं विभज्य स्वतः संवित्तिप्रविजृम्भितप्रकटितज्ञानेन बुध्वा स्फुटम् । ज्ञातृद्रव्यमनन्तसन्ततरसास्वादोन्मुखीभूय तद् जोवत्वं यदिदं विविक्तममुना चैतन्यमातन्यते ॥ ५४ ॥ प्राणैर्जीवति यस्तु जीवितचरो जीविष्यतीति स्वयं जीवो युक्तिनिरुक्तिमभ्युपगतः प्राणैस्तु सामान्यतः । यद्यस्त्येव तथापि पुद्गलजडद्रव्येण निर्वर्तितत्वादात्मा न घटामियर्ति तदृते चैतन्यसंचेतनात् ॥ ५५॥ मोहादिप्र सरदविभावकलुषत्वापत्तिमत्पुद्गलद्रव्योदञ्चदपञ्चमाञ्चितचरप्राणैर्यतो जीवति । नैतद्युक्तनिरुक्तमुक्तम चलद्रव्यानुषङ्गप्रसङ्
गानारोपित रूपचिद्गुणतया सम्यक् समालम्ब्य ताम् ||५६||
यत्कर्म मलमालिन्यमलिनो मलमिच्छति ।
तत्तेषु ममताहेतुरन्तरङ्गो विधिर्बली ॥५७॥
५५ = प्रसा २.५५, तदी २.५५ । ५६ = प्रसा २,५६-५७, तदी २.५६-५७ । ५७ = तदी २.५८ |
३७