________________
३६.
पंदा सुन्दर विरचितं
स तस्य तत्र वृत्यंशे प्रध्वंसः प्राविशेषतः । यदि भङ्गभवावेकवृत्त्यंशे भवतस्तदा ॥ ३६ ॥ समयस्य पदार्थस्य स्यान्निरन्वयता कथम् । यतः पूर्वोत्तरांशाभ्यां युगपद् द्वयवर्तिनः ||३७||
स्वभावेनाप्यनुत्पन्नाऽप्रध्वस्तत्वादवस्थितः । एवमेकत्र वृत्यंशे समयार्थस्य तत् त्रयम् ||३८|| वृत्यंशेषु समस्तेषु समयार्थस्य तत् त्रयम् । एकस्मिन्नपि वृत्त्य॑शे तस्य दर्शनतोऽस्ति हि ॥ ३९ ॥ सद्भावोऽस्तीति कालाणोर्विशेषस्तित्व सुस्थितेः । विना समानतास्तित्वमुपपत्तेरसंभवः ||४०||
अस्तित्वं तावदुत्पादव्ययध्रौव्यैकात्मिका । न प्रदेशं विना वृत्तिः कालस्य खलु संभवेत् ॥ ४१ ॥
यतो वृत्तिमतोऽभावः प्रदेशाभवने सति । स तु शून्योऽस्तिसंज्ञाया वृत्तेरर्थान्तरत्वतः ॥ ४२ ॥
न वृत्तिः केवलैवापि कालो भवितुमर्हति । वृत्तिमन्तं बिना वृत्तेरुपपत्तेरसंभवः ॥४३॥ उपपत्तिर्यदोत्पादव्ययधौव्यैकता कथम् । अनेकांशात्मकत्वेन पूर्वोशध्वंसतस्तथा ॥ ४४ ॥ उत्पादादुत्तरांशानामेकात्मनौव्यतोऽस्ति चेत् । नैवं भङ्गोऽस्ति यत्रांशे यस्मिन्नुत्पादता तयोः || ४५॥ सहवृत्तेरभावत्वाद् द्वयोरप्येकता कुतः । सर्वथाऽस्तमितत्वेन प्रध्वस्तांशस्य भाविनः || ४६ ॥
संभावितात्मलाभत्वाद् ध्वंसोत्पादैक्यवर्तिवत् । कुतस्त्यं धौव्यमित्येवं सति नश्यत तत् त्रयम् ॥४७॥ उदेति क्षणभङ्गस्तु द्रव्यमस्तमुपैति तत् । क्षणेन क्षयिणो भावा उदोयन्ते निरन्तरम् ॥ ४८ ॥ ३९-४०दी २.५१ । ४१-५३= तदी २.५२ ।