________________
ज्ञानचन्द्रोदयनाटकम् ।
२७
सत् स्वतोऽस्ति पररूपतोऽप्यसत् स्वान्यतो भवति वक्तुमक्षमम् । सप्तसप्तिरिव सप्तभङ्गिका स्तोममूहतमसामुदस्यति ॥८६॥ इत्येवं नयसङ्ग्रहप्रहसमावेशः समादेशयत्यन्येषामनुभूतिमभ्रममृते स्वद्रव्यतायाः पृथक् । स्यात्काराङ्कितविक्लवक्लमतमव्यासादिवासादय
न्नात्माराममनन्तधामपरमव्याकोशितान्तर्दशा ॥८७॥ विशेषसंविदनुभूतिप्रपञ्चो निष्क्रान्तः । अथ प्रविशति क्रियाकारणं कर्म ।
जीवस्यानादिकर्मप्रचयपरिचयस्पन्दनेन क्रियेयं निर्वृत्तवास्ति नित्यं निजसहजरसोन्मज्जदत्यन्तवृत्तिः । टकोत्कीर्णस्वभावः क्वचन न च पृथक् पर्ययेभ्योऽभितः प्राग् मोहात साफल्यमेति द्वितयपरिणतेरुत्तरा निष्फलैव ॥८॥
क्रिया फलवती यदि स्फुरति हेतुभूतात्मनः शुभान्यतर कर्मणां प्रकृतिभिः स्वकार्य तदा । ननु प्रचुरपर्ययाः समभियोगसंयोगतः स पुद्गलनटोद्भटो नटति नानटोति स्फुटम् ।।८९॥
यावन्नामगुणादिपर्ययपरिच्छेत्ता न तावत् स्वभावान्तर्भावविभावलुण्टनपटुर्ज्ञानोपलम्भाहते । स्वैरोज्जागररङ्गसङ्गमरसास्वादादनास्वादयनिस्तन्द्रापरभावलावणरसं निःश्वस्य विश्राम्यति ॥९॥ कश्चिज्जातु न जायते किमपि न प्रक्षीयते तत्त्वतः पर्यायाः क्षणभङ्गभगुरतरा गङ्गातरङ्गा इव । यस्तेषां स्वल संभवः स विलयप्रादुर्भवः संभव
त्यन्योन्यं घटकुम्भयोरिव मृदोऽनेकत्वमेकत्ववत् ॥९१।। १८= तदी २. २४ । ८९-तदी २.२५ । ९१=असा २.२७; तदी २.२७