________________
पद्मसुन्दरविरचितं
पर्यायाध नवस्थितोऽपि स निजद्रव्योदयावस्थितो नाना संसरतः क्रियापरिणतौ द्रव्यस्य मोहोदयात् । संसारः स निगद्यते भवभवाभेदेन संभाव्यतां प्राचीनोत्तरनिर्विभागमहिमा चैतन्यचण्डद्युतिः ॥९२।। आत्मा कर्ममलीमसः परिणतिं लब्ध्वा यतः कर्मणः कर्माश्लिष्यति नूतनं परपरीणामो हि हेतुस्ततः । कर्ताऽऽत्माऽऽत्मनि कर्मणां परिणतेः कर्तृत्वभावादयं स्यादेषामुपचारतः किल तदा बन्धस्य सिद्धिर्भुवम् ॥९३।. आसंसारभवद्रव्यकर्मकालुष्यभाविते ।। कार्यकारणभूतस्य कर्मणः कर्तृताऽऽत्मनि ॥९॥ स्यात् कर्ता परिणामतः स्वयमयं तस्मादनन्यत्वतः कर्तृत्वेन विवक्षितः परिणतिः सा तन्मयी तत्क्रिया । सा कर्मे व निजात्मनानपगता प्राप्या स्वतन्त्रेण वा तस्माद्भावकलङ्कपङ्करजसां कर्ता परेषां न हि ॥९५॥ उपचारात् क्रिया कर्म कर्तृणामेव रूपतः ।
आत्मा कर्ताऽऽत्मभावानां पुद्गलः पुद्गलात्मनाम् ॥१६॥ क्रिया निष्क्रान्ता । अथ चित् त्रिपात्रीभूय प्रविशति ।
तस्मादात्मा परिणमति चेच्चेतनायां निजायां सापि त्रेधा विदितविशदज्ञानपूरे महिम्नि । कर्मण्येका तदनुगफले नातिवर्तेत चित्रं भेदाभेदभ्रमविरहितश्चेतनवायमात्मा ॥९७॥ पदार्थानां ज्ञानं मुकुरहृदयाभोग इव यो विकल्पस्तत्कर्म स्वयमपि विधेयं विधिवशात् । सुखं वा दुःखं वा फलति सुकृतं दुष्कृतमपि
त्रिधा चैतन्यात्मन्यवतरति निश्चित्य चितिचित् ॥९८॥ ९२ = तदी २.२८ । ९३ = प्रसा २.२९, तदी २.२९ । ९४-९६= तदी २.३० । ९७=प्रसा २.३१, २.३१ । ९८ - तदी २.३२।