________________
पद्मसुन्दरविरचितं
द्रव्यं तावदनुज्झदन्वयमयी शक्ति सदेवास्य या पर्यायव्यतिरेक विस्फुरणताविर्भावताऽस्यामपि । द्रव्यस्यान्वयशक्तितोऽच्युतिरनन्यव्यमेव ध्रुवं निश्चीयेत ततः सतो ननु सदुत्पादो ह्यनन्यत्वतः ॥७९॥ पर्यायदुर्ललितवृत्तिरवश्यमेव द्रव्यस्य भाविनि भविष्यति तेन भूत्वा । स्वामन्वयाङ्कुरितशक्तिमनुज्झदेतद् द्रव्यं भवन् कथमतोऽन्यतमोऽस्ति जीवः ॥८०॥ नामर्त्यः खलु मर्त्यतामुपगतो मर्यो न चामवंतां सिद्धोऽसिद्धतया स सिद्ध इति वाऽनन्यः कथं चान्यतः । पर्यायाः समये निजे यदि तदा सन्तोऽप्यसन्तोऽन्यतो द्रव्यस्याप्यपृथक्तयानुभवतः स्याद् वाऽसदुत्पादता ॥८१॥ येन जातमनुजादिभवत्वं द्रव्यमन्यदिह जातु न स्यात् । जायमानवलयादिविकार कान्तकाञ्चनमिव प्रतिभाति ॥८२॥ यैः सामान्यविशेषजन्यविधिना द्रव्यार्थिकं वस्तुतः । पर्यायार्थिकमाकलय्य युगपद् द्वैतं समालोक्यते । यद्येकान्तनिमीलितः स्फुरति तत् पर्यायभेद क्रमः शुद्धद्रव्यनिमीलने तदपरः प्रोन्मीलतेऽन्यत्ववत् ॥८३॥ सर्वावलोकनतया प्रतिषिध्यते न चक्षुयेन यदि दर्शनमेकवेलम् । अन्यत्वमस्य यदनन्यतमत्वमेकचक्षुर्दशा भवति चैकदिशावलोकः ॥८॥ स्यादस्त्येव सतः स्वरूपभवनान्नास्त्येव यद्वाऽसतोऽन्यस्मादेतदवाच्यमेव युगपत् स्यादस्ति नास्त्येव यत् । स्वान्याभ्यां क्रमतोऽस्त्यवाच्यमभितः स्यान्नास्त्यवक्तव्यव
च्चान्यस्वान्यसमत्वतोऽस्ति न च वा वक्तव्यमेतैः समैः ॥८५॥ .. ७९-८२ = तदी २.२०-२१ । ८३-८४ = तदी २.२२ । ८५-८७ = तदी २.२२।