________________
214
ज्ञानचन्द्रोदयनाटकम् । द्रव्यं तन्न गुणो गुणो न तदिति स्यादप्यतद्भावता : न द्रव्यव्यतिरिक्त एव हि गुणो नैतत् तदाभासकम् । नैवं चेदुभयोरपोहपरता शून्यत्वमप्येतयोरेकत्वं प्रवितय॑तर्कितमतिव्याविरुद्धं भजेत् ॥७॥ सत्स्वभावमधितिष्ठति तस्मात् सोऽपि तत्परिणतिर्गुण एव । अस्तिताऽस्ति सत इत्यनुवृत्त्या सिद्धयतीह गुणता गुणवत्ता ॥७१॥ न जातु गुणपर्यायौ भवेतां द्रव्यतः पृथक् । : ... ततस्तद्भवनेनैव सत्ताऽस्तु स्वयमेव तत् ॥७२॥ प्रादुर्भावमनाद्यनन्तमसकृत् सत्तानिबद्धं लसेत् पर्यायाधभिधेयतासु तदसद्भावे निबद्धा स्थितिः । " तस्मादस्त्वविरोधता सदसतोरुत्पादभेदस्य सद्भावोऽस्त्यन्वयशक्तिभिस्तदितरव्यक्तीस्तु सङ्क्रामतः ॥७३।। न चाङ्गदादिपर्याया हेमैवान्वयशक्तिभिः ।। तदन्यव्यक्तिसङ्क्रामाद्धेम्नः सदभावता स्फुटम् ॥७४॥ न द्रव्यं खलु पर्ययानुभवनात् पर्यायनिष्पादक- : व्यक्तित्वेन यदन्वयाङ्कितलसच्छक्कोस्तु सङ्कामतः । द्रव्यासद्भवनप्रभूतिरभवच्चेद(चेदङ्)गदाधानतद्धेम स्वव्यतिरेकतापरिलसद्व्यक्तित्वनिष्पादनात् । ७५॥ व्यतिरेकानुकारिण्या व्यक्तयोऽन्वयशक्तिताम् । । प्रपन्नाः प्रर्ययानेव द्रव्योकुर्युर्यथाऽङ्गदः ॥७६।। व्यतिरेकत्वमापन्ना द्रव्यमन्वयशक्तयः । पर्यायीकुर्युरासाद्य क्रमवृत्तिं हिरण्यवत् ॥७७॥ द्रव्यार्थादेशतस्तस्मादुत्पादस्तु सतो मतः ।
पर्यायादेशतः सत्यमुत्पादोऽसत इष्यताम् ॥७८॥ ६९-तदी २.१५ । ७०=प्रसा २.१६; तदी २. १६ ।
७१ = प्रसा २.१७, तदी २.१७ । ७२ = प्रसा २.१८, तदी २.१८ । ..७३-७८ = तदी २.१९ ।