________________
a
पद्मसुन्दरविरचितं
वर्धमानमृदोऽन्तःस्थान्युत्पादादीनि सैव मृत् । न च वस्त्वन्तरं तद्वद् द्रव्यमेव निरन्तरम् ॥६३॥ शुद्धद्रव्यविमर्शनेन च निजद्रव्यं न जातं न वा नष्टं शिष्टतरस्वरूपमचलं शुद्धस्वभावस्थितम् । भिद्यन्ते किल पर्ययास्तदसमा द्रव्यस्य गत्यादिभिः आंदैर्भङ्गभवध्रुवात्मकतया द्रव्यत्वमेकं पृथक् ॥६॥ एकः शुद्धनयेन चित्परिणतद्रव्यार्थिकेन स्फुटं नित्यो नित्यतमैकवस्तुविलसद्विज्ञानदुग्धाम्बुधिः । पर्यायाः प्रलयं व्रजन्तु यदि वा प्रादुर्भवन्तु स्वयं कल्लोला इव नाहमस्मि सहजज्ञानैकलीनोऽच्युतः ॥६५॥ न स्यात् सद् द्वितयीगतिर्भवदसत् सत्तास्वरूपात् पृथक तत्रासद् ध्रुवसर्गतोऽजननितः स्वात्मानमस्थापयत् । द्रव्यं व्यस्त समस्तमस्तमयति स्यात् सत्तयोः संभवादात्मानं परिबिभ्रदुद्गमयतात् सत्तामथोद्गच्छतु ॥६६॥ प्रविभक्तप्रदेशत्वं तत् पृथक्त्वस्य लक्षणम् । न सत्ता-द्रव्ययोरस्ति जातु शुक्लोत्तरीयवत् ॥६७॥ भवति यदपि सत्ता-द्रव्ययोरन्यता चेद् गुणगुणिवदनेकं स्यादतद्भावभावात् । उदितगुणविशेष्यं द्रव्यमन्यस्वरूपा स्फुरति विदितसत्ता नैकमेकान्तवृत्त्या ॥६८॥
स्रग्दाम हार इति सूत्रमिति स्फुरन्ति मुक्ताफलानि यदिति त्रिविधं विधानम् । शुक्लो गुणः स च न तानि न तानि स स्याद् इतीतराश्रयविनाभवने परत्वम् ॥६९॥
६४-प्रसा २.११, तदी २.११ । ६६-प्रसा २.१३, तदी २.१३ । ६७-६८= प्रसा २,१४, तदी २.१४ ।
HINDI