________________
ज्ञानचन्द्रोदयनाटकम् ।
अथ स्यादसदुत्पादः कुम्भस्याभवनौ ततः । सर्वेषामेव भावानां भवेदभवनिः स्फुटम् ॥५१॥ गगनेन्दीवरादीनामसतां जननिस्तदा । मृत्पिण्डस्याप्यसंहारकारणाभावनावतः ॥५२॥ असंहरणिरेव स्याद् भिन्नसंहारकारणात् ॥ सर्वेषामेव भावानामसंहरणिरञ्चति ॥५३॥ उच्छेदः संविदादीनां सदुच्छेदेऽथवा भवेत् । व्यतिरेकसमाक्रान्तस्थितेरन्वयशून्यतः ।५४।। मृत्तिकाया यदस्थानिः प्राप्तायाः केवलस्थिति । सर्वेषामेव भावानामस्थानिरुपपद्यते ॥५५॥ सति क्षणिकनित्यत्वे चित्तस्य क्षणनित्यता । सत्सु क्षणिकभावेषु द्रव्यशून्यप्रसङ्गता ॥५६॥ उत्तरोत्तरतरव्यतिरेकसृष्टितः प्रथमसंहृतिरूपात् । स्वान्वयस्थितिमवस्थितमेतत् त्रितयाङ्कितमभिद्रवतीति ॥५७॥ उत्पाद स्थितिभङ्गभेदरचना पर्यायमालम्बते सद् द्रव्यं समुदायिनः समुदयाभेदादिदं शास्त्रिवत् । शाखाभिर्भवनं गता ध्रुवतया बीजाङ्कुरानोकहावस्थामिः प्रतिभाति केवलमसद्भिन्नैरभेदस्ततः ।।५८॥ अवतरति हृदयभूमिं क्षणभेदस्तय॑माण एव सदा । तदपि च तत्क्षणवर्ति द्रव्यं तत् त्रितयसमवेतम् ॥५९॥ दण्डभृदण्डचक्राद्यारोप्यमाणाङ्गसन्निधौ । यो मृत्पिण्डस्य सर्गस्य क्षणो नाशस्य स कचित् ॥६०॥ कोटिद्वयाधिरूढस्य मृत्तिकात्वस्य स स्थितेः । तथान्तरर्बहिरङ्गानां साध्यसाधनसन्निधौ ॥६१॥ उत्तरप्राक्तनानां च जन्मनाशक्षणावुभौ । कोटिद्वयाधिरूढस्य द्रव्यत्वस्य स्थितिक्षणः ॥६२।। ५८-६३ = प्रसा २. ९-१०, तदी २. ९-१०।