________________
पद्मसुन्दरविरचितं
प्रवाहक्रमसंवृत्ताः परिणामात् सदाऽणवः । अन्योन्यव्यतिरेकेण विष्कम्भस्तन्निबन्धनः । प्रदेशपरिणामानां प्रवाहस्य क्रमः सदृक् ॥४१॥ षट्पदी । स्वरूपर्वरूपाभ्यामुत्पन्नोत्सन्नता क्रमात् । निजस्थाने प्रदेशास्ते परिणामात् तथा मताः ॥४२॥ अन्योन्यसंवलितवस्तुतयैकयाऽपि सर्गस्थितिप्रलयतो ननु धारयन्ति । बेधात्मकं निजमसङ्करदोषवृत्या सर्वे प्रदेशपरिणामविशेषरूपाः ॥४३॥ मुक्ताप्रालम्बलम्बिज्वलदमलगुणा मुक्तमुक्ताफलानां पूर्वेषामप्रकाशोदयनमुदयनादुत्तरेषां प्रभायाः । सर्वेषां चाकचिक्यं सममसमतया पूर्वबाधः परेण त्रेधैक्यं निर्विशेषात् तदिव परिणतेः स्यादनुस्यूतिरस्य ॥४४॥ सर्गः संहृतिमन्तरा न घटते नासौ तमप्यन्तरा नैतावप्यचलात्मकस्थितिविनाभूतौ न चेयं तयोः । भिन्ना सृष्टिरिवास्ति संहृतिरपि सृष्टिः स्थितियों पुनस्तावेव स्थितिरत्र नैव घटतेऽन्योन्याविनाभावितां ॥४५॥ सर्गः कुम्भस्य यस्सैव मृत्पिण्डस्यास्ति संहतिः । भावस्यान्यतराभावस्वभावेनावभासनात् ॥४६॥ यो मृत्पिण्डस्य संहारः सर्गः कुम्भस्य स ध्रुवम् । अभावस्यान्यवद्भावस्वभावेनावभासनात् ॥४७॥ यो कुम्भ-पिण्डयोः सर्ग-संहारौ सा मृदः स्थितिः । तन्मुख्यव्यतिरेकेणान्वयस्यैव प्रकाशनात् ॥४८॥ या ते मृदः स्थितिः कुम्भ-पिण्डयोः सर्ग-संहृती। तयोस्तु व्यतिरेकाणामन्वयस्यानतिक्रमात् ॥४९॥ सगै मृगयमाणस्य केवलं भिन्नमन्यतः । मादानकारणाभावाद् घटस्याभवनिर्भवेत् ॥५०|| ४५-प्रसा. २.८ । ४६-५७= तदी २.८ ।