________________
२y
ज्ञानचन्द्रोदयनाटकम् । अनादिनिधनद्रव्यमीक्षते* नान्यसाधनम् । स्वभावसिद्धिसंसिद्धमदभुतं धाम चेष्टते ॥२९॥ कादाचित्कत्वान्न पर्यायो द्रव्यान्तरमपेक्षते । गुणपर्यायनिष्ठ तदेकमेवोपपद्यते ॥३०॥ द्रव्यं स्वभावतः सिद्धं सदित्यपि तथा पुनः । द्रव्यादर्थान्तरं नैव सत्तोत्पत्तिः प्रपद्यते ॥३१॥ समवायेन सत्तायाः सद् द्रव्यं नार्थभिन्नता । द्वयोस्तु युतसिद्धस्यासम्भवाद् दण्डदण्डिवत् ॥३२॥ न चाप्ययुतसिद्धत्वेनोपपद्येत वस्तुता । इहेदमत्र निष्ठा चेत् प्रतीतिः किंनिबन्धना ॥३३।। यदि भेदं निबध्नाति भेदः को नाम कथ्यताम् । यदि प्रादेशिको नैष युतसिद्धापसारणात् ॥३४॥ स्यादताभाविकः शिष्टो द्रव्यं तन्न गुणो मतः । न चैकान्तेन बध्नाति प्रतीतिमिदमत्र यत् ॥३५॥ शुभ्रो गुणोऽस्ति वस्त्रस्य स्यादताभाविकोऽपृथक् । स्वयमुन्मज्जति स्वैरं द्रव्यं गुणवदित्यतः ॥३६॥ उत्तरीयमिदं शुभ्रं द्रव्यं द्रव्यतयार्पणात् । स्यादताभाविको भेदो निमज्जति समूलतः ॥३७॥ यत्रोन्मज्जति भेदविभ्रमभरस्तत्रायुतोन्मज्जनं प्रोन्मजज्जलराशितो न च पृथक् कल्लोललोलायितम् । भेदे मज्जति मज्जति त्वयुतता द्रव्यं लसत् केवलं स्वैरोन्मग्ननिमग्नतामुपगतं सद्व्यमेवं ध्रुवम् ॥३८॥ द्रव्यं निजस्वभावे सदस्ति सर्गस्थितिप्रलयतायाः । ऐक्यात्मकपरिणामः स्वभाव इति निगदितस्तस्य ॥३९॥ यथा द्रव्यस्य विष्कम्भकमव्यापारवर्तिनः ।
सूक्ष्मांशास्तु प्रदेशाः स्युव्यवृत्तेः समन्ततः ॥४०॥ * 'कादाचित्कत्वात् पर्यायो न द्रव्यान्तरमीक्षते' इति प्रती टिप्पणम् । - २९-३८-तदी २.६ । ३९ प्रसा २.७ । ४०-४४ तदी २.७ ।