SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पदासुन्दरविरचितं मूलसाधनताभूतैरुत्पादितसदस्तिवत् । कुण्डलाङ्गदपर्यायपीततागुरुता ततः ॥१९॥ ध्रौव्योत्पादव्ययानां यत् स्वरूपमनुवर्तयन् । । गुणैः पर्यायभेदैरप्यभिन्नं सत्त्वमस्य हि ॥२०॥ अधिकरणकर्तृकरणैर्भाव्यं निष्पादितस्य निष्पत्त्या । सवृत्तिविवर्तमानप्रवृत्तियुक्तैः सदस्तित्वम् ॥२१॥ अस्तित्वं हि सतोऽसतो न च भवेन्निष्पादितं तैरतद्भिन्नैर्भावमपेक्ष्य साधनतया साध्यं न चैवान्यथा । तत्तद्भावमनुज्झदुज्झितपरद्रव्यान्तराडम्बरं वलगत्युद्धतमुद्धतं त्रिजगतामन्तर्बहिः सर्वतः ॥२२॥ प्राग्वैचित्र्यकृतप्रपञ्चरचनाचातुर्यतुर्याऽनया कल्पिद्रव्यपटः पटीयसि गुणस्तोमे ततस्तन्यते । सादृश्यस्तिमितास्तितास्तमिततद्वैचित्र्यचित्रः पटः सामान्यानुभवातू सदस्ति सकलद्रव्यं प्रतीत्याऽञ्चति ॥२३॥ एकमेवावबोद्धव्यं सत्परिच्छेदनं सतः । बहुव्यापकसामान्यात् सर्वद्रव्येषु कल्पते ॥२४॥ यद्येवं न तदा किमस्ति सदसत् किञ्चित् कचिन्नास्ति सत् सद्वाच्यमिति प्रभेदभिदुरैरुद्भिद्यते सगिरिः । सर्व विप्रतिषिध्यते न च तथासाध्यं विशेषाजहसामान्येन समुत्थितः पथि परानुत्थाप्य नानात्मके ॥२५॥ यथाऽनोकहरूपाणां सादृश्यास्तिप्रसङ्गतः । एकत्वमत्र नानात्वं स्वस्वरूपास्तिताबलात् ॥२६॥ तथा बहूनां द्रव्याणां सादृश्योद्भासितैव सत् । . एकत्वमपि नानात्वं स्वस्वरूपास्तिसंभवात् ॥२७॥ यदुच्चकास्ति नानात्वमनानात्वं परस्परम् । तिरोधायाविरोधेन समुत्तिष्ठति निष्ठितम् ॥२८॥ २३-२८-तदी २.५।
SR No.520756
Book TitleSambodhi 1977 Vol 06
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1977
Total Pages420
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy