________________
ज्ञानचन्द्रोदयनाटकम् |
द्रव्यं तद् व्ययमानमत्र विगतप्राचीनयाऽवस्थयाः व्युत्पादेन तदुत्तरप्रगुणया व्युत्पद्यमानं ततः ।
धौव्यालम्बितमीक्ष्यतेऽभ्युपगतस्वावस्थित।वस्थया न स्वारूप्यमिदं जहाति निजकं नोझत्यवस्थान्तरम् ||७||
उपात्त मलिनावस्थं निर्मलावस्थयोदितम् । उत्तरीयमिव द्रव्यं तेनोत्पादेन लक्ष्यते ॥ ८ ॥
मलिनावस्थया तच्च व्ययमानं व्ययेन तत् । धौव्येणावस्थितावस्थमभिन्नं स्वस्वरूपतः ||९ ॥ तथाविधस्वरूपस्यावस्थायामवलम्बते । स्वस्वरूपमभेदेन स्वरूपेणोत्तरीयवत् ॥ १० ॥
गुणैर्विस्तार सामान्ये तररूपात्मकैः 5 सह । स्वरूपभेदमादत्ते द्रव्यान्वयविवर्तिभिः ॥ ११॥
तदायतविशेषात्मरूपैः पर्यायवर्तिभिः । तन्तुभिर्लक्ष्यते तद्वदुत्तरीयमिदं तथा ॥ १२ ॥ स्वरूपास्तित्ववद्भावः स्वभावोऽनन्यसाधनात् । अनाद्यनन्तता हेतुरूपवृत्या विवर्तनात् ||१३|| विभावधर्मवैधर्म्यात् स्वस्वभावविभावनात् । नानाsपि प्रदेशानां भेदाभावात् सकता ॥ १४ ॥
तद्रव्यगुणपर्यायभेदानां भिन्नता न हि । परद्रव्यान्तराणीव सापेक्षत्वात् परस्परम् ॥१५॥ तेषामस्तित्वमस्त्येकमेव तत् कलधौतवत् । द्रव्यादिना पृथग् द्रव्याल्लभ्यन्ते न गुणादयः ॥ १६॥
पीतादिगुणरूपैस्तु पर्यायैः कुण्डलादिभिः । काञ्चनस्य यदास्तित्वं स स्वभावः प्रकाशितः ॥ १७॥
तत्स्वरूपमुपादाय तैरस्तित्वमुदीरितम् । तेभ्योऽपार्थक्यरूपस्य द्रव्यस्य कनकस्य च ॥ १८॥
६-१२ = तदी २.३ । १३ -२२ = तदी २.४ ।
१९