________________
पद्मसुन्दरविरचितं ___ इत्थं ब्रह्म सनातनं निरुपमद्रव्यार्थरूपं परा
चीन यत् परतः स्वभावविषयं रागाधुपाधि च्युतम् । पूर्णज्ञानकलाविलासविलसच्चैतन्यमुन्नं यतां चित्संविन्निशितासिनाशितमहामोहेशदुःशासनम् ॥१५॥ निशिततरवारिधारापथीनमवलम्ब्य जैनमुपदेशम् ।
दारय निर्दयहृदयं मोहमहादुष्टभटकटकम् ॥१६॥ बन्धो निष्क्रान्तः । अथ प्रविशति संवररूपा स्वसंविदनुभूतिः ।
परिच्छिनत्यविच्छिन्नचैतन्येनात्मतां स्वयम् । परं च परकीयेन सविशेषविवेचकः ॥१७॥ संन्यस्यापरभावमात्मगुणतामादाय शुद्धस्फुरत्संवित्तिप्रतिपत्तिनिश्चलधिया ये लब्धवर्णाः किल । तद् द्रव्यं सकलत्रिकालकलितधोव्यं समत्वे समालम्बन्तामपहाय तद्विसदृशं द्रव्यान्तरं तत्समम् ॥१८॥ निश्चिन्वन्नहम, त्मसादभिलसच्चैतन्यमुद्राङ्कितस्फारस्फूर्जदमन्दसुन्दरमहो मन्दारकन्दायितम् । नाहं द्रव्यमनात्मनीनमभितो निर्वासितान्तबहिज्र्वालाजालकलाकलापकलितश्चैतन्यचन्द्रोदयः ॥१९॥ सजातीयविजातीयभेदानासद्य तत्त्ववित् । सजातीयविजातीयभेदेभ्यो भिन्नमीक्ष्यताम् ॥२०॥ परिच्छिन्दन्नन्तःस्वपरपरतामभ्रमतया विभिध स्वारूप्यं सहशतुलनां बिभ्रदपि च । समाकीर्णा यद्वत् कनककणिका लिपटलैरिवादाय स्वस्यापनयनविधौ शुद्धिरजनि ॥२१॥ अशुभशुभनिशुम्भनाय शुभ्रद्युतिरतिर्निवचनीयशुद्धबोधः । अवधृतकृतकृत्यतामवाप्य प्रसभमनाकुलमाकलय्य तस्थौ ॥२२॥ आत्मज्ञानविजम्भिताऽप्रतिहतालोकान्तदृष्टिः परा । । रागद्वेषविशुद्धशुद्धसकलादर्शील सद्दर्शनम् । निध/ताखिलघातिकल्मषतया चिच्चेतनस्यात्मनः स्वच्छन्द प्रससार सारपरमानन्दात्मरूपं महः ।।२३॥