________________
ज्ञानचन्द्रोदयनाटकम् । निहता न पुनर्भवं भवित्री स्फुटमेकान्तनितान्तमोहदृष्टिः । निजचिन्निशितासितासिधारापरिपातैरपतत्परोपलब्धेः ॥२४॥ आस्तामस्तसमस्तवस्तुकलितान्तजेल्पकोलाहल क्रीडत्स्वैरतरङ्गितोत्कलिकया क्रीडन्नयं बध्यते । । तद्व्यान्तरसङ्कमक्रमभुवः संवेदनात् का कथा तत्तज्जल्पविकल्पजालविकलो बन्धच्छिदा मृश्यताम् ॥२५॥ घटाकाशपटाकाशभेदभिन्नममेदतः । विमृश्य वस्तुवस्तुत्वमवलम्बय निश्चयम् ॥२६।। निर्विकारनिजाधीनस्वसंवेद्य सुखं सुखम् । स्वर्गश्वभ्रादिकं सौख्यं दुःखं वा दुःखमेव तत् ॥२७|| उन्मूल्याचूलमूलामनुभवनियतद्रोहमोहानुभूति । विज्ञायान्तःस्वरूपं प्रविकशदमलज्ञानमज्ञानभिन्नम् । विस्फूर्जदिव्यधामस्नपितपरिलसच्चारुचैतन्यपुरोदश्चच्चन्द्रातपान्तर्गतजगदजगद् भाति सूक्ष्माणुरूपम् ॥२८॥ विशुद्धमुद्धतैकान्तशुद्धशुद्धोपयोगिनम् । निष्कामनिर्विरामै कमात्माराममहं भजे ॥२९॥ . स्वपरस्वोररीकारतिरस्कारपरायणः । ध्याता ध्यायति तद्धयानध्येयरूपमनेकतः ॥३०॥ उद्धतध्वान्त विध्वंसिचण्डमार्तण्डमण्डलः ।। जागर्ति जगदावर्तगर्ते निवर्तयन्नयम् ॥३१॥ बिभ्रच्छुभ्रतरङ्गरङ्गितलसद्विज्ञानदुग्धाम्बुधि-- प्रोन्मज्जत्परमात्मदिग्गजघटाघण्टारणत्कारितं ।। । शब्दब्रह्मसमुल्लसत्यविकलज्ञानं समुल्लासयत् सान्तबर्बाह्यचिदुच्छलच्छविपरब्रह्मैकतामानयत् ॥३२॥ विज्ञानघनमात्मानमन्यशून्यं विचिन्तयेत् ।
श्रीपद्मसुन्दरस्यायमुपदेशो विशेषतः ॥३३॥ निष्क्रान्ता सामान्यसंविदनुभूतिः ।। इति श्रीज्ञानचन्द्रोदयनाटके परमात्मविवरणे
तृतीयोऽङ्कः पूर्णः ॥३॥