________________
ज्ञानचन्द्रोद्यनाटकम् |
इदमेकान्तविश्रान्तचिचमत्कारलक्षणम् । अखण्डमचलं धाम स्वात्माराममुदञ्चयेत् ||८|| उद्यत्सान्द्रसुधासुधांशु किरणव्याविद्धचन्द्रोपलज्योत्स्ना निर्भर वस्तु वास्तव समावस्थानतावस्थितम् । द्वैताद्वैतमिति प्रपञ्च रचना मुत्क्षिप्य पक्षान्तरं स्वारूप्यानुभवैकगम्यचरितं चित्ते चिरं धारय ॥ ९ ॥
रागद्वेषदृढतरग्रन्थिगुम्फावरुद्धो
द्रव्याद्यन्यत्वपरपरिणत्याऽऽददानः परत्वम् ।
अज्ञानात्मभ्रमभरतिस्कारकारो जम्भे भेदज्ञानप्रसरभिदुरोद्भेदनेन स्वभेदम् ॥१०॥ उन्मज्जत्क्षीर सिन्धुद्रवर सलहरीमध्यमध्यागतोऽयं प्रोन्मीलन्मोहरागद्वय विविधविधं सेतुबन्धं बबन्ध । बन्धः सम्बन्धपूर्वक्रमगत परमाश्लेषसंश्लेषदोषात् संविदम्भोलिधारा किरण विकिरणैर्दीयतां निर्दयेन ॥ ११ ॥
प्रत्यक्षादिप्रमाणाज्जिनवचनचयापेक्षितार्थप्रतीते
बुद्ध्वा द्रव्यादिभावान् स्वगतमतिबलादात्मतत्वावबोधे । प्रोद्भूते मोहपक्षक्षपणनिपुणतामादधानः परेभ्यो व्यावृत्य स्वच्छशुद्धस्वरसवशतया स्वस्वभावं धिनोति ॥ १२ ॥
शब्दब्रह्म विविक्ततत्त्वमचलं निश्चित्य निश्चिन्तता
माधाय क्षणमक्षपक्षमभितः काषं कषित्वात् क्षयम् । नीत्वा जेतुमभीप्सु रुद्धतमहामोह प्रतापोदयं प्रारेभे रणरङ्गमङ्गसकलज्ञानासिधारः पुमान् ॥ १३ ॥ अर्थास्तद्गुणपर्ययास्तदनु तैर्द्रव्याणि चासंज्ञिता द्रव्यत्वेन हि पीततादिगुणभृद्वर्णं सुवर्णं यतः । पर्यायत्वमियर्ति बाहुवलयादेभूषणस्यापि यद् द्रव्यं तत्र घटामियर्ति परमब्रह्मैव तेभ्योऽपृथक् ॥ १४ ॥
१० = तदी १.८३ । ११ = तदी १.८३ । १२-१३ = तदी १.८६, ८८ । १४ = तदी १.८७ ।
१.५