SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः। स्फुरति विशदज्ञानेऽज्ञानेऽवसीदति नोचकैरुदयमदयं द्वैतस्यायं विवेच्य विदारयन् । उदयतितमामग्नेर्योगाद् विभिन्न इवायसो द्रुघणघनताजन्यं दुःखं क्षयं नयति क्षणात् ॥१॥ सर्वारम्भस्तम्भशोभायमानं प्रोन्मूल्याचं मोहहयं सुरम्यम् । स्वात्मारामे रमीत्येकवेलं नीत्वा वैरं स्वैरतामभ्यनन्दत् ॥२॥ यत्रान्वयान्वयविशेषणचिद्विवर्तग्रन्थीयमानजननव्यतिरेकरूपाः । त्रैकालिकाः कलनयाऽपि न वस्तुतस्तु मुक्तानुविद्धतनुसूत्रमिव स्फुरन्ति ॥३॥ चिदानन्दस्पन्दप्रसृमरतरज्योतिरमल-- प्रलम्बप्रालम्बे गुणमणिगणोद्गुम्फनमिव । विधायान्तर्धानं चिति चरितचैतन्यविलस त्तरङ्गास्तारङ्गे निजसहजरङ्ग विदधते ॥४॥ एकपात्रीभूय सामान्यबन्धो निष्क्रान्तः । अथ विशेषबाधो मोहरूपेण त्रिपात्रीम यावतरति । तावद्वैरं रचयतुतरां मोहमूर्धाभिषिक्तस्कन्धाचारोद्भटभटघटारागरोषादिवर्गः । यावन्नायं सकलविमलज्ञानशाणेन धारा धत्ते सर्वकषपरतयाऽरूपचिद्रूपभूपः ॥५॥ रागद्वेषद्वयभ्रान्तिमदिरोन्मत्तचेतनः । अद्वैतमपि द्वैतं भावयत्यविवेकतः ॥६॥ तद्व्यगुणपर्यायकर्तृकर्मादिभेदतः । निर्विकारमयं ब्रह्म चैतन्यं चिति चिन्तयेत् ॥७॥ ३-४=तदी १.८० । ६प्रसा १.८३, तदी १.८३ ।
SR No.520756
Book TitleSambodhi 1977 Vol 06
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1977
Total Pages420
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy