________________
ज्ञानचन्द्रोदयनाटकम् ।
३
सपरमपरं शश्वद्बाधाभिधावितमाकुलं विषमविषमं सम्यम्बन्धत्वकारणदारुणम् । द्वयमिदमिदं पुण्यापुण्यं विवेच्य विवेचकः श्रयति परमात्मानं व्यक्तं परप्रकृतिस्मृतेः ॥३६॥ सोऽहमिन्द्रप्रदवीनिबन्धन निश्चिनोति स्खलु यस्तु मूढधीः । चित्तभित्तिमनुरजयन्नयं स्वं निमज्जयति मोहसागरे ॥३७॥ अतः प्रत्यग्बन्धादनुसरदिदं विश्वविमलं वियत्तामालम्ब्य स्वयमिव निरालम्बनतया । समुत्तस्थौ विष्वकरणनिकुरम्बप्रमथने चकासांचके तज्जगदखिलमच्छाच्छकिरणैः ॥३८॥ इत्थं वितत्य निजतरङ्गभङ्गानुन्मूल्य सर्वपरभावतरुप्ररोहान् । चिन्मेधपूर्णपरमात्मसरिल्लसन्ती श्रीपद्मसुन्दरमुनोन्द्रकृताभिषेका ॥३९।। इति श्रीज्ञानचन्द्रोदयनाटके परमात्मविवरणे
द्वितीयोऽङ्कः पूर्णः ।।
३६-प्रसा १.७६, तदी १.७६
...
.