________________
पद्मसुन्दरविरचितं
जीवदिन्द्रियपरत्वपरत्वप्राप्यकारि निरकारि न येन । दुर्निवारमिदमस्य च दुःखं तद्वियोगपरिभोगविकल्पात् ॥२९॥ यद्यभीष्टमनभोष्टमनिष्टं श्रेष्ठमित्यसदृशाभिनिवेशः । स्वं विगोप्य परतामुपयुक्तः पश्यतामहह ! मोहमहत्त्वम् ॥३०॥ प्राग्बन्धाभिनिबद्धदुर्द्धरमहामोहाल्यकादम्बरीपा नव्याकुलितस्वचेतनवशादुन्मत्तलीलां दधत् । विश्व व्याकुलयत्ययं च विकल: प्रभ्रष्टसंचेतनो। जागर्ति क्षणमुक्षिपन्न विकलज्ञानानुसंबोधनम् ॥३१॥ स्फुरितविशदभेदज्ञानमूलानुकूलश्वकितमिव चकासामास चैतन्यचिह्नः । घुमणिरिव महोभिय॑द्युतद् द्योतमानः स्वयमयमनुभूतिव्यक्तिशक्ति व्यनक्ति ॥३२॥ नाशुभं शुभमुरोकरवाम स्वं विहाय न परं च भजाम । तस्थिमस्थिरल्यस्थितचित्ता बोघसमनि परात्मनि नित्यम् ॥३३॥ इत्थमुत्थितनिरञ्जनविद्यादण्डखण्डितपरभ्रमकुम्भः । स्वैरमाविरभवद् भवभेदी निःसपत्ननिजभावमुपास्य ॥३॥ जलायुकास्तृष्णाङ्कुरजनितसौख्यानुभवनात् पिबन्त्यः कीलालं स्फुटमभिलषन्तः सुकृतिनः । उदहक्लेशेन प्रतिफलति तत्पुण्यमखिलं
तदायत्यामन्तर्गत निजसुखाभासमसुखम् ॥३५॥ २९-तदी १.६४ । ३०=तदी १.६५ । ३२-प्रसा १.६८ । ३५-तदी १.७५