SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकम् । प्रोद्भूतं स्वयमुच्छलद्विमलविज्ञानार्चिरभ्यर्चितं शश्वद्धास्वरयोगपविलसबोधात् समन्तस्थितम् । द्रव्यानन्त्यबुभुत्सयाऽभ्युपगतं दुष्कर्मनिर्मूलनादित्यात्यन्तिकसौख्य मुख्यममलं प्रत्यक्षमालक्ष्यताम् ॥२२॥ ज्वलविमलकेवलग्लपितलोकलोकोत्तर-- स्फुरदरनिरङ्कुशानपरशक्त्यभिव्यक्तिभिः । प्रलीनमलिनीलिमप्रथमरोहमोहोदया--- दनाकुलमवस्थितं त्विदमुदारमुज्जृम्भते ॥२३॥ अनादिनिधनं धनं प्रशमसङ्गनिर्वेदिनामखेद मनिवेदितं स्वरसरङ्गसङ्गस्फुटम् । वितर्कतरकर्कशस्वपरखेदभेदभ्रमप्रमाथि निरुपाधि यजयति निष्प्रकम्पं महः ॥२४॥ क्वचिद् विशददर्शनं क्वचिदनन्तबोधात्मक क्वचिल्लसति तवयं क्वचिदतवयं चाद्वयम् । क्वचिच्चिदचितश्चमच्चरिकरीति चित्रं पृथक क्वचित् प्रकृतिकृन्तने निशितखड्गधारं कचित् ॥२५॥ सघनघनघातिकर्मप्रतिघातोद्भूतसहजसुखविमुखः । परमार्थसुखमजानन् न श्रद्धत्ते परं सौख्यम् ॥२६॥ करणोपपन्नमिदमक्षसुखं ननु दुःखमेव गदितं कुशलैः ।। समभिद्रुताः करणजैः सहजैविषयेषु रमति मोहवशात् ॥२७॥ पिपासित इतस्ततो मरुमरीचिवोचीषु चेत् परिभ्रमति विभ्रमी भ्रमणविभ्रमभ्रामितः । पिबेग्जलमतस्ततस्ततरतोपभोगोद्भवः कथं स खलु तृप्यति स्मरसुखैर्विपाकोदितैः ॥२८॥ २२-प्रसा १.५९, तदो १.५९ । २३=तदी १.६० । २६-प्रसा १.६२ । २७ असा १.६३ । २८तदी १.७५ ।
SR No.520756
Book TitleSambodhi 1977 Vol 06
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1977
Total Pages420
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy