________________
ज्ञानचन्द्रोदयनाटकम् ।
यद्यर्थी न चिदि स्फुटं न तदपि ज्ञानं लसत्यात्मनि स्वं साक्षान्मुकुरुन्दसुन्दरलसदबिम्बानुगं बिभ्रति ॥३०॥ नात्मानुभूतिमपहाय परानुभूतिमुन्मेषयत्यमलकेवलचन्द्रकान्तिः । आनन्दकन्दमकरन्दमनङ्कपङ्कः स्वं धाम चेतयति चेतनचञ्चरीकः ॥३१॥ अभ्यस्यतामुपरताखिलवाच्यवीचिकल्लोलजालकलनाभिरभिप्रशान्तः ।. *नाऽनन्यजन्यमहिमा महिमानमस्य किं वर्णयाम कवलीकृतवाक्प्रपञ्चम् ॥३२॥ शब्दब्रह्मवितर्कवाक्यरचनातज्ज्ञप्तिरेव श्रुतं तत्सञ्चेतनयैव चेतनमयो निर्द्वन्द्वतामुल्लसन् । ज्ञानज्ञायक एष एव परमैश्वर्यावलम्बी परा-. नन्तर्लीनविशुद्धबोधपरमो निर्भेदमाभेदयन् ॥३३॥ पश्य मार्गमवगम्य योगिनां पुद्गलात् किमपि धाम यत् पृथक् । कोदशी स्तिमितलोचनस्य ते पोस्फुरीति मतिरद्भुताद्भुता ॥३४॥ द्वैतभावमपहाय निश्चलस्वानुभूतिविषयीकृतात्मना । भूतभावभवदीक्षणक्षम चेतयाऽऽशु चिति चेतनात्मकम् ॥३५॥ परिच्छेत्ता मृग्यः स्पपरपरिणामस्य महती क्रिया ज्ञप्तिः स्वस्मिन्नवतरति विज्ञानविषया । नयानीकक्षोभक्षषणनिपुणानन्तमहिम-..
प्रकाशस्वातन्त्र्यं लसति परभावं कवलयन् ॥३६॥ ३३ = तदी १.३४ । ३६-३७=तदी १.३६ । *'ना पुरुषः' इति प्रतौ टिप्पणम् ।
MIman