SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ OC पद्मसुन्दरविरचितं निस्तरङ्ग निजरङ्गसङ्गमस्वादुमेदुरमुदारसम्पदम् । निर्विकारमनुचिदुत्तमं विस्फुरद्विम केवलं महः ॥ २३॥ सहजसुधार सलहरीक्षी राम्बुधिमध्यमग्नलावण्यः । निर्भरपरमानन्दो जिनेन्द्र चन्द्रः सदा जयति ||२४|| युग्मम् ॥ ज्ञेयानन्त्योदर्शि प्रतिनियतयथावस्थितार्थस्वभावज्ञानानन्तत्ववाच्यं निज सहजरसज्ञानमुज्जृम्भतेऽस्य । ज्ञानं तु ज्ञेयनिष्ठ दहन इह यथा दाह्यनिष्टस्तथेति ज्ञानाविच्छिन्नरूपं समगुणगुणितं द्रव्यमुच्चैश्चकास्ति ||२५|| ज्ञानाद्यद्यतिरिच्यते घटपटस्थानीयतामागतो हीनत्वेन विवृण्वतः स्वसमवेतत्वाद्यभावादचित् । तज्जानाति कथं स्वरूपपर रूपत्वव्यवस्थापनामित्थं ज्ञानसमान एव परमात्माऽयं समुज्जृम्भते ॥२६॥ ज्ञेयाकार विवेचनक्षममिति ज्ञानं ततस्तन्मयी - भूय स्वव्यपदेशभाग् भवगतः सर्वज्ञताऽऽचक्ष्यते । सर्वे तद्विषयाः स्वतत्त्वमपरित्यज्यापरेऽर्थाः स्वतश्चिद्रूपात्मतया चकास्ति सहजाद्वैतावलम्बी पुमान् ॥ २७॥ आत्मा ज्ञानमतो निराश्रयवशादज्ञानतापद्यते ज्ञानं चापि स वेदनात्मकतया तस्याप्यसिद्धिर्ध्रुवम् । इत्थं तन्निरुपायनादिनिधनानन्यत्वसम्बन्धमाकोकतया गुणी तदविनाभूतोऽभिसम्भाव्यताम् ||२८|| चक्षू रूपमसंस्पृशन्न पतितं दृश्यं तदप्यात्मसात्कुर्वन्नित्ययमप्यतीन्द्रियपरश्चिच्छक्त्यभिव्यक्तिभिः । अस्पृष्टोऽप्यनवस्थितः कवलयन्नर्थानिवानन्दता - कल्लोला कुल के लिखेलन विधौ जागर्ति कौतूहली ॥ २९॥ तदुग्धाध्युषिताभिभूय विलसन्नीरेन्द्रनोलतिः P स्वसंवेदनमात्मसाद्विरचयन्नन्यानभिव्याप्य सः । २५ = तदी १.२३ । २६ = प्रसा १.२४-२५, तदी १. २४- २५ | २८ = प्रसा १.२७, तदी १.२७ । २९ = तदी १.२९ । ३० = प्रसा १.३०, तदी १.३० ।
SR No.520756
Book TitleSambodhi 1977 Vol 06
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1977
Total Pages420
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy