________________
ज्ञानचन्द्रोदयनाटकम् ।
मात्माऽऽत्मानमिहाऽऽत्मनाऽऽमन इतः शुद्धात्मनः स्वात्मनि स्वद्रव्याधुपलम्भलम्भनविधिप्रध्वस्त कर्मा स्वयम् । प्रोद्भतः स्वमरीचिवीचिविलसच्चैतन्यचन्द्रातपस्नातः पूर्णकलामलं विजयते स्वायंभुवं तन्महः ॥१६॥ द्रव्यं द्रव्यतया चकास्ति सकलैः पर्यायभेदैरलं वस्तुत्वेन हि वस्तु वस्तुत इदं नानाभिदा भिधते । ध्रौव्योत्पाद विनश्वरत्वसहितः सद्भूतभावादयं निस्त्रैगुण्यपथैक एव नियतं जाम्बूनदस्याङ्गदः ॥१७।। शुद्धातीन्द्रियबोधमुद्धततरस्वानन्दकन्दोल्लसद्विज्ञानाचिरशुद्धमोहतिमिरादुद्धर्तुकामः स्वयम् । द्वैतं भावमपास्य नित्यपरमाद्वैतामृतस्यन्दिनि स्वीकृत्य स्व-परप्रकाशकतया स्वं भावमुन्मज्जति ॥१८॥ समरसरसिकस्य स्वाश्रयालम्बनोत्थप्रविकसदमलार्चिः पुञ्जमजत्समाधेः । न हि किमपि परोक्षं सर्वमध्यक्षमेतज्जगदवगतविश्वग्भावनिस्तन्द्रवृत्तेः ॥१९॥ प्रध्वस्तान्धतमःप्रकाशितलसद्विज्ञानभानुप्रभाभाराकान्तसमस्तवस्तुसदसद्भावानुभावस्थितिः । शश्वद्विश्वमविश्वरूपमखिलं ज्ञानाम्बुधौ मज्जयन् शुद्धादर्शतलामलोपमवपुर्जीयाज्जिनः सर्वगः ॥२०॥ कुसुमितवनराजीमञ्जरीपुञ्जगुञ्ज
भ्रमररवणवीणानन्दकन्दायमानः । परिलसदमलान्तर्बोधशुद्धोपलम्भः द्रुतकनकमिवान्तर्वति जागर्ति यस्य ॥२१॥ युग्मम् ॥ प्राकारत्रयनिर्जितोर्जितमितत्र्यैलोक्यलोकयुतेगर्जदघोरघनाघनारवजयो गम्भीर दिव्यध्वनिः । यस्योद्यद्वदनेन्दुमण्डलमिलद्भामण्डलयोतिता थोरुत्तम्भितसूर्यमण्डललसद्बिम्घाऽनुविभ्राजते ॥२२॥