________________
पद्मसुन्दरविरचितं
ज्ञेयालम्बिज्ञानभावेन भावो द्रव्यालम्बिज्ञानमेवास्य पुंसः । तस्मान्नैष च्छिद्यते भेदभावैरव्यापन्नो मृग्यतामद्वितीयः ॥३७॥ संवित्समुच्छलदनल्पविकल्पतल्पमुच्छिच वेद्यपरतामवलम्ब्य साक्षात् । चैतन्यविन्यसनवस्त्ववबोधसौध-- शुद्धान्तपद्धतिमवातरदस्तु वस्तु ॥३८।। पटे शुक्ले वर्णाः सित-हरित-पीतारुणतरा विचित्रा दृश्यन्ते गवगमविज्ञानघटिताः । तथैवात्मारामः परमसमसंवित्तिविशदः परेषामादर्शी परिणमति तादात्विकतया ॥३९।। सर्वे ये भाविभूताः प्रतिफलनतया सन्ति भावानुभावा ज्ञानादीपलम्भेऽनुभव नभवनाभोगमुद्भासमानाः । प्रत्यक्षाः शुद्धबुद्धातिशयशयगुणव्यक्तिशक्तिप्रभावात् सद्भूताः सर्वदैव ज्वलदचलमहानन्दकन्दामृताब्धौ ॥४०॥ जाताजातमतन्द्रितं यदि पुनः प्रत्यक्षमणां परं प्रत्यक्षं न करोति तत्तदखिलं कौतस्कुती दिव्यता । आक्रम्याक्रमविक्रमप्रतपनप्रोज्जम्भितास्वण्डितानन्तज्ञानविधानमानसतिरस्कारी जरीजृम्भ्यते ॥४१॥ प्रलीनानुत्पन्नानखिलपरभावानगणितानशक्यस्तद् वक्तुं किमपि च परोक्षं खविषयम् । यदोहापूर्वैः स्वक्रमसमयजातैर्विषयिणां परिच्छेदस्तम्कि किल सकल काल कलयति ॥४२॥ व्याप्यपकतापक्षकक्षीकारो जडात्मनः ।
धूमधूमध्वजन्यायादशुद्धस्यैव कल्पते ॥४३॥ ३९ = तदी १.३७ (उत्थानिकासहित)। ४० = प्रसा १.३८, तदी १.३८ ४१ = प्रसा १.३९, तदी १.३९ । ४२ = प्रसा १.४०, तदी १.४० ।