________________
३६
श्रीमन्दिधर्मगणिविरचिता
पा. प्रतिस्थाष्टम नवमदशम श्लोकानामवचूरिस्तु इयम् ]
अथ भगवतः कांश्चिद् वाग्गुणानाह
हन्ति तमोऽस्यति दोपान् दुनोति पङ्क' च डिपति जडिमानम् । सच्चक्रस्योशुचं छिनत्ति तनुते ततश्च मुदम् ||८|| आर्या ॥
1
इन्तीत्यादि - स्फुरद् गुणैस्तेजस्वित्वादिभिः कृत्वा भास्वतो देदीप्यमानस्य विवस्वतो वा भवतो गवां वाचां पक्षे रुचां च विलासस्तमोऽज्ञानमन्धकारं च हन्ति हिनस्ति दोषान् द्वेषादीन् निशां च अस्यति क्षिपति पङ्कं पापं कर्दमं च पुनर्दुमोति उपतापयति, जडिमानं जाड्यं शैत्यं च डिपति क्षेपयति (क्षिपति ) । चक्रस्य विद्वत्समूहस्य प्रधानकोकस्य च उग्रशुचं तीत्रविषादं छिनत्ति खण्डयति । ततश्च शुक्छेदनानन्तरं पुनर्मुदं हर्षे तनुते विस्मा (स्ता ) रयति ||८||
कुमुदं मुष्णाति पुनः पद्मोल्लासं प्रपञ्श्चयत्यनिशम् ।
राष्टि गोविलासः स्फुरद्गुणैर्भास्वतो भवतः || ९ || युग्मम् || तथा कुमुदं कुत्सितप्रीति कैरवं च मुष्णाति लुण्टयति । पद्माया लक्ष्म्याः पद्मानां कमलानां चोल्लासं प्रपञ्चयति प्रकटयतीत्येवमवमनिशं निरन्तरं निशाविरामं च गोविलासो राराष्टि भृशं शोभते इत्यर्थः ।
,
1
1
अनुबन्धाः | ककारोऽदादेरुपलक्षणार्थी यथा 'हनंक हिंसागत्योः ' वर्त० तिव् । अदादित्वात् प्रत्ययाभावे हन्ति इति । चस्तु दिवादेर्यथा 'असूच् क्षेपणे' अस् तिबू, दिवादित्वात् श्ये अस्यति इति । टः स्वादेर्यथा 'टुडंट् उपतापे' दुति स्वादित्वात् "नुः "उश्नो: " (सि. हे. सू. ४-३ - २) इति गुणे दुनोति इति । तस्तुदादेर्यथा "डिपत् क्षेपे" (है. बृ. प्र. पू. ५६६) डिप् तिबू तुदादित्वात् शे डिपति इति । पस्तु रुधादेर्यथा 'छिपी द्वैधीकरणे' छिद् रुधादित्वात् स्वरात् न छिनत्ति श्न इति । यस्तनादेर्यथा 'तनूयी विस्तारे' तन् । वर्तमाना ते, तनादित्वात् ङः, इति ॥ ८ ॥ शः कचादेर्यथा - 'मुपशू स्तेये' मुष् तिव् क्रयादित्वात् श्रा तस्य णत्वे मुष्णाति इति । णचुरादेर्यथा प्रात् ' पण् विस्तारे' (है. बृ.प्र.पू. ५७४) पच् ति चुरादित्वात् णिचि नोन्ते शवि गुणे अयि च प्रपञ्चयति इति । यङ्लुक् (पू) वेति कि(पित्करणं यङ्लुबन्ताः सर्वेऽपि धातवोऽदादौ शवा (व) नहीं: परस्मै - पदिनश्चेति ज्ञापनार्थं, यथा “राजि (ज) ग टुभ्राजि (ज) ग् दीप्तो' (है. बृ.प्र.पू. ५२४) राज् यङो लुपि तिवि द्वित्वषत्वादौ च राराष्ट्रि इति || ९ || || युग्मम्॥
तनुते