________________
श्री गौतमस्तुतिः ।
इत्यभिन्नुत्य भवन्तं जगदुत्तम ! गौतम ! प्रशमवन्तम् । याचे न किञ्चिदपरं भूयात् त्वयि भक्तिरेव परम् ॥१०॥
३७
इत्यनुबन्धफलेन [ युक्ता ] श्री गौतमस्वामिस्तुतिः सम्पूर्णा ॥ देवतानां गुरूणां च नाम नोपपदं विना उच्चरेदित्यादिवचनात् हे जगदुत्तम ! गौतम ! युगप्रधानेन्द्र भूते ! मौतमेत्यत्र गौतमगोत्रभवत्वेनेन्द्र मूत्यग्निभूतिवायुभूती मांसामान्यनिर्देशेऽपि श्रीवर्धमान शिष्याग्रणीरित्यनेनेन्द्र भूतिरेव गृह्यते। मुख्यगणधरत्वेन तस्यै (स्य) शिष्याप्रणीत्वोपपत्तेः इति प्रागुक्तप्रकारेण भवन्तं प्रशमवन्तमुपशमरसोपेतम् अभित्य स्तुत्वा किञ्चिदपरं श्रीयशुद्धिस्वर्गादिकं न याचे नाभ्यर्थये परं केवलं त्वयि भवद्विषये सर्वोपेयार्थसाधनी भक्तिरेव भूयात् सम्प यताम इति ।
इत्यनुबन्धफलगर्भा श्रीगौतमस्तवावचूरिः ।