________________
श्रीनन्दिधर्मणिविरचिता रस्य · वाघुपलक्षणेऽनियतत्वादल्पफलत्वाच्च पृथगत्रैव दर्शनम् । अत एवावेति वेदन्तोति न्याय्ये आद्यनुबन्धान्विहायाशेषाणामपि शेषानुबन्धानां समाप्तिद्योतनार्थ इतिशब्दस्यान्त्योपन्यासः । तेनात्र ये *छजझा ठढ थदध फवभाः तथा अन्त्यविसर्गौ च अनुबन्धा नोक्तास्ते न सन्तीत्यवसेयमिति ॥७॥
- अथ यस्य भक्त्यादिर्यथाभिलाषमिष्टार्थ फलैः पम्फुलोति स भगवानेव किमपि व्यावयेते
जहि जाडयमस्य दोषान् दुनु पकं क्षिप तमांसि रुन्धि शुचम् । तनु च मुदं सच्चक्रे मुषाण कुमुदं प्रथय सुपथम् ॥८॥ इत्येव यः समुद्यंयमीति भास्वद्गुणैर्जगत्युदितः ।
स त्वं निजदर्शनतस्तनुता दिन ! सपदि नः सुदिनम् ॥९॥ [युग्मम] .. जहीत्यादि । भास्वद्भिर्दीप्रै स्वतः सूर्यस्य सम्बन्धिभिर्जाड्यापहारादिभिर्गुणैः कृत्वा जगत्युदितः सन् जाडयं जडत्वं शैत्यं च जहि हिन्धि । दोषान् रागद्वेषादीन् निशां च अस्य क्षिप । पy पापं कर्दमं च दुनु अपतापय । तमांसि अज्ञानानि अन्धकाराणि च क्षिप नुद । तथा सच्चक्रे विद्वत्समूहे प्रधानकोके च शुचं खेदं रुन्धि आवृणु मुदं प्रीति तनु च विस्तारय । कुमुदं कुत्सितप्रीति कैरवं च मुषाण लुण्टय । सुपथं साधुमार्ग निरपायाध्वानं च प्रथय प्रवर्तय ॥८॥ ___इत्येव यो भगवान् समुधंयमीति भृशं पुनःपुनर्वा समुद्यच्छति स त्वं है इन ! हे स्वामिन् ! पक्षे हे अर्क ! निजदर्शनतः स्वकीयमतात् स्वसाक्षात्कारात् वा नोऽस्माकं सपदि सुदिनं तनुतादिति ।
अत्र जहीत्यादिषु सर्वेषु क्रियापदेषु “प्रत्यये नवा...." (सि. हे. सू. ५४-४३) इति सूत्रेण हिः ।
'अथानुबन्धाः-ककारोऽदादेरुपलक्षणार्थों यथा 'हनंक हिंसागत्योः' । (है. ब.प्र पृ. ५४१) हन् प्रत्ययाभावे "शासस्हनः शाध्ये धिजहि" (सि.हे.सू. ४-२८४) इत्यनेन ह्यन्तस्य हनः जहीति ।
१. नास्ति ला. । २. * * एतच्चिह्नान्तर्गतपाठस्थाने पूच्छाजाद्य इति पाठः पा. प्रतो । ३. पा. प्रतौ अस्य लोकस्य स्थाने एवं श्लोकोऽस्ति... हन्ति तमोऽस्यति दोषान् दुनोति पकं च डिपति जडिमानम् ।।
सच्चक्रस्योग्रशुचं छिनत्ति तनुते ततश्च मुदम् ॥८॥ ४. अदादित्वात् ।