________________
न
श्रीगौतमस्तुतिः। रस्तु “रिति” (सि.हे.सू. ३-२-५८) इति सूत्रेण पुंवद्भावार्थो यथा पदवी प्रकारो अस्याः 'प्रकारे जातीयर' (रि) (सि.हे.सू. ७-२-७५) पुंवभाषे च पटुजातीय इति ।
लस्तु "तिलैस्तुलिन्" मिन्न्यनि ण्यैणि स्त्र्युक्ताः" (है. लि. स्त्री. अ. का. ६) इत्यनेन स्त्रीलिङ्गार्थो यथा मुदो 'भावे त्वतल्' (सि.हे.सू. ७-१-५५) इति तलि लित्वाद् "आत्" (सि.हे.सू. २-४-१८) इति सूत्रेणाऽऽपि टादौ च मुत्तयेति ।
वः 'उत और्विति व्यञ्जनेऽद्वे:' (सि.हे.सू.४-३-५९) इत्यादौ 'अवौ दा....' (सि.हे.सू. ३-३-६) इत्यादौ च विशेषणार्थों यथा 'एटुंग्क् स्तुतौ' (है.ब.प्र.पृ. ५४६) ण्टु तस्य स्तु वर्तमाना तिवि वित्त्वाद् गुणे औत्वे च स्तौति इति, तथा अव पूर्वो 'दैव शोधने' (है बु.प्र.पृ.४९५) दै 'मात्सन्ध्यक्षरस्य' (सि.हे.सू.४२-१) इति 'दा' क्ते वित्त्वाहासंज्ञाभावे दतोऽभावादवदातेति ।
शः 'क्यः शिति' (सि.हे.सू.३-४-७०) इत्यादौ विशेषणार्थो यथा-क्रियते इति, 'कृगः श च् (च) वा' (सि.हे.सू.५-३-१००) शचि (शे) शित्त्वात् क्ये 'रिः शक्याशोर्ये' (सि.हे .सू. ४-३-११०) इति रित्वे आबादौ च क्रियामिति ।
पः 'षितोऽङ्' (सि.हे.सू.५-३-१०७) इत्यनेनाङों यथा, 'जट्र भूषालू जरसि' (है.ब. प्र.पृ. ५५१) न षित्वादङि "ऋवर्णदृशोऽङि' (सि.हे.सू. ४३-७) इति गुणे निर्योगाग्निजरेति ।
सस्तु "नाम सिदव्यञ्जने' (सि. है.सू.१-१-२१) इत्यनेन पदत्वार्थों यथा-भवत इदं इति ईयसि सित्त्वात्पदत्वे भवदीयेति ।
. आकारः कचित् भ्वाधुपलक्षणार्थो" यथा-'अव रक्षणे' (ह.ब. प्र. पृ. ५१०] अव् पञ्चम्या हौ भ्वादित्वात् शवि हेर्लकि अब इति । तथा "वद व्यक्तायां वाचि" (है. बृ. प्र. पृ. ५३१) वद् शतरि भ्वादित्वात् शवि "यशवः" (सि. हे. सू२-१ -११६) इति शवः परस्यातुरन्तादेशे वदन्ती चेति । अका
१. "तिलस्तु" अय पाठो नास्ति पा. । २. ण्यपि - व्युक्ता' अय' पाठः ला. प्रती नास्ति पा. प्रतौ तु वर्तते । ३. 'दांवकू लवने (है.बृ.प्र.पृ ५३४) इति पाठः पा. । ४. "क्यः शिति" (सि.हे.सु. ३-४--७०) इति सूत्रेण । ५. “अतः प्रत्ययाल्लुक् (सि.हे.स. ४-२-८५) इति सूत्रेण अपि इति अधिक पा. ।