SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३२ श्रीनन्दिधर्मगणिविरचिता अथाविरतस्यापि भगवतः कियामात्रस्तुतेर्भोगादिफलमाह - योऽकृत्यकृत् कान्तपाशदास्या स्वं संप्रयच्छते । सोऽपि चेत्पजातीयमुत्तया स्तौति ते क्रियाम् ॥६॥ चन्द्रावदातवदना निर्जरलीलावती तमाश्लिष्येत् । Haatratori मां स्मरार्दितामव वदन्तीति ॥ ७॥ युग्मम् ॥ यः कश्चिद कार्यकारी निन्या कान्ता कान्तपाशा, सा चासौ दासी च तया सम्प्रदानभूतया एवं द्रव्यं रागातिरेकादहं त्वद्वरागोऽस्मीत्यात्मानं वा संप्रयच्छते दत्ते । सोऽप्येवंविधाकार्यकार्यपि पट्टी प्रकारोऽस्याः सौ पटुजातीया 1 सा चासौ मुच्च तस्या भावो, मुत्ता तथा । चेद्यदि कासौ मुलोन्मूलितमारविकारः क चाहं नराधमः स्मरवशगत्वेन दास्याः कामुक इत्येवं स्वकर्म निन्दन् ते तव क्रियां स्तौति प्रशंसति ॥ ६ ॥ तर्हि तं नरमिन्दुज्ज्वलमुखी देवाङ्गना जरारहितान्यस्त्री वा त्वदीयैशरणप्राप्तां मदनातु मामव रक्षेति वदन्ती आश्लिष्येत् आलिङ्गे दित्यर्थः । अथोदाहरणानि - पकारो " ह्रस्वस्य तः पिव्कृति" (सि. हे. सू. ४-४ - ११३) इति तागमार्थः । " क्यङ्मानि पित्तद्धिते" (सि.हे. सू. ३- २ - ५० ) इत्यनेन पुंवद्भावार्थश्च यथा- न क्रियत इति " कृवृषि........" इति (सि.हे. सू. ५-१-४२) इति सूत्रण क्यपि नञो नकारस्यात्वे अकृत्यं तत्करोति इति किपि तल्लुकि पित्त्वादुभयत्र तागमेऽकृत्यकृत् इति । तथा निन्द्या कान्ता * " निन्द्ये पाश (पि) " (सि. हे. सू. ७ - ३ - ४) पित्वत्पु वद्भावे कान्त *पाशेति । मस्तु "दामैः सम्प्रदानेऽधर्म्य आत्मने चै" (सि.हे. सू. २-२-५२ ) इत्यत्र विशेषणार्थः । यथा संप्राभ्यां 'दाम् दाने' (है. बृ. प्र. पू. ४९०) दा वर्तमाना ते शवि "श्रौति...." (सि.हे. सू. ४ - २ - १०८) इत्यादिना यच्छादेशे सम्प्रदाने तृतीयायां दास्या स्वं सम्प्रयच्छते इति । १. " दामः सम्प्रदानेऽधर्म्य आत्मने च" (सि.हे. सू. २ - २ - ५२ ) इति तृतीया । २. अयं पाठः पा. प्रतिस्थ: । ला प्रतौ तु 'सा पटुजातीयमुत्ता तया' इत्येवमस्ति । ३. ० ला । ४. यमव ला. । ५. आलिलिङ्गतमामचिरा देवाश्लिक्षतीत्यर्थः पा. । • नास्ति पा । ७. "नजत्" (सि. हे. सू. ३-२ - १२५ ) । ८. * * एतच्चिह्नान्तर्वर्त्तिपाठो नष्टः प्रेतौ । एवं ९-१०-११ अकेषु अपि ।
SR No.520754
Book TitleSambodhi 1975 Vol 04
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1975
Total Pages427
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy