________________
भोगौतमस्तुतिः। अथ प्रस्तुतस्तुतिमाहपुष्पन्धयीमिव स्थितिकरी तवानन्दथुप्रदेऽहिकजे । यः स्वाकृत्रिमभक्तिं चकार तमभक्त भजका श्रीः ॥५॥
यः कश्चित्तवानन्दथुप्रदे समृद्धिप्रदायिनि अंहिकजे पादप पुष्पन्धयीमिव सौरभलोभोपनतभृङ्गीमिव निजसम्यग्भक्ति स्थितिकरी] स्थितिकरणशीलां चकार तं नरं भजतादित्यशास्यमाना भजका श्रीलंकमारभक्काशिश्रियादिति । अत्र श्रियाः श्रयणेन श्रीमत्वादिपम सादृश्यं भगवहिकजे निश्चीयते अन एवं भृङ्गयुपमानं युक्तिमत् इति। . अत्रोदाहरणानि-'ट:' 'अणयेकग्ननटिताम्' (सि.हे.सू.२-४२०) इत्यनेन ड्यर्थः । टुस्तु "दिवतोऽथुः" (सि.हे.मू. ५-३-८३) इत्यथुप्रत्ययार्थो यथा-पुष्पं धयतीति । “शुनीस्तनमुञ्जकुलास्यपुष्पात् दधैः" (सि.हे.सू.५१-११९) इति खशि मागमे धातोष्टित्वात् ङ्यां पुष्पन्धयीमिति । स्थितिं करोतीति "हेतुतच्छीलानुकूले....” (सि.हे.सू. ५-१-१०३) इत्यादिना दे गुणे टित्त्वाञ्च ड्यो स्थितिकरीति । तथा आपूर्वः "टुनदु समृद्धौ” (है.ब.प्र.पृ.५० ४) नद् भाषे अथौ आनन्दथुरिति ।
ड: "डित्यन्त्यस्वरादेः" (सि.हे.स. २--१-११४) इत्यनेनान्त्यस्वरलो. पार्थः, डुस्तु “ड्वितस्त्रिमक तस्कृतम्" (सि.हे.सू. ५-३-८४) इत्यनेन त्रिमगों यथा-आनन्दधुं प्रददातीति "प्राज्ञश्च” (सि.है.सू.५-१-७९) इति डे के जल तस्मात् जात "अजातेः पञ्चम्याः” (सि.हे.सू. ५-१-१७०) इति हे अन्यस्वरलोपादानन्दथुप्रदे कजे चेति । तथा करणेन निवृत्ते तमि(ति) त्रिमकि नगि चाकृत्रिमेति ।
णस्तु वृद्धयों यथा-"डुकृङ् करणे" (है.ब.प्र.पृ.५२२) कृ परोक्षाणाव णित्त्वाद् वृद्धौ द्वित्वादौ चकार इति ।
नस्तु "इच्चापुंसोनिक्याप्परे” (सि.हे.सू. २-१-१०७) इत्यनेन इदभावार्थों यथा भजतादिति "आशिष्यकन्" (सि.हे.सू. ५-१-७०) इत्यानि स्त्रियां नित्वादिदभावे भजकेति ॥५॥
१. तन्छीलां । २. वात्र । ३. “परोक्षे" (सि.हे.सू. ५-२-१२) । ४. "द्विर्षातुः परोक्षाले प्रा। स्वरे स्वरविधेः" (सि.हे.सू. ४-१-१)। .