________________
पिशुनपञ्चाशिका सर्वोऽपि नाम कुंशकोटिमतिः प्रयत्नात्
वेत्ति त्रयों विवृणुते पदवाक्यतर्कान् । विन्दत्यवाग्मनसगोचरमात्मतत्त्वं
चित्तं तु कश्चन न निश्चिनुते खलानाम् ॥३९॥ स्फीता पुरस्तद्नु धर्मऋतुक्षपेव
मैत्री क्रमेण तनिमानमुपैति येषाम् । शाठयं तु तहिनमिव प्रथिमानमेति
किं ते न कालसुहृदः पिशुना ग्रसन्ते ॥४०॥ ज्ञातं चिराय विरमन्ति न तेऽपराधात्
नाधातुमेषु च रुषां फलमीशितारः। किन्तु क्रियासमभिहारकर्थिताना____मस्माकमुक्तिरनिशं पिशुनान् पिनष्टि ॥४१॥ धातुः स्तवीमि किमु पाणिसरोरुहाणि
निन्दामि वेति विततः खलु मे वितर्कः । सल्लक्षणं मधु यदेकमितः किमासी
दन्यच्च दुर्जनरजो भुवनान्ध्यहेतुः ॥४२॥ धत्तेऽन्यदेव पिशुनो हृदयेऽपि किश्चिद्
वाचा ब्रवीति परिकल्पनमन्यदेव । मन्युक्रियैकपरिचारकचित्तवृत्ते
रोगातुरस्य च न कश्चन तद्विशेषः ॥४३॥ धिक्शापवाचमथवा मम दुर्जनेषु ___यत्तेऽपि सन्त इव वेधस [एष स]र्गः । द्राक्षारसालकदलीवनमेकतश्चेद्
लोके विषद्रुमवनान्यपि नान्यतः किम् ॥४४॥ शश्वद् गुणीभवितुमुज्ज्वलमेव यत्न
मातन्वतोपि('स्तु) खलयोरयमेव भेदः । एकः स्वके मनसि कानपि मन्त्रभेदान्
अन्यः परस्य तु जपत्युपकर्णमेव ॥४५॥ १. कुशाप्रमतिः ।