SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सर्वार्ककधिना विनिर्मिता क्रुद्धेऽपि केसरिणि धावति धीरनाद मप्यातुरस्य पितरः शरणीभवन्ति स्मेरादपि प्रियगिरोऽपि विशङ्कमानः ___ कर्णेजपात्तु करुणः शरणं कमेतु ॥३२॥ अग्निः स्पृशन्तमहिराक्रममाणमेव । हालाहलो रसयितारमचित्रमेतत् । चित्रं हिनस्ति पिशुनस्तु दवीयसोऽपि ___ यस्तं दिशामि सकुलं कुलयोगिनीभ्यः ॥३३॥ नादातुमक्षमत दस्युभिया खलस्य संमूर्च्छतोऽपि वदनान्मणिमस्य बन्धुः । दैवादलीकमृतकः कवलीकरोति ___दुष्टो ममाङ्गुलिमसौ दशनैः कदापि ॥३४॥ हित्वा खलानहह चत्वरदेवतानां सन्तर्पणाय किमजः ससृजे विधात्रा । आः झातमग्निपरमाणुविनिर्मितानां तेषामसग्दहति तद्गलनालदीर्घम् ॥३५॥ हा धिग्जनो मयि भवत्यपि जीवतीति तीर्थेऽम्बुधौ तदुपतापधिया स्वमौज्झत् । भूत्वा विषं किमुदितः खल एव लोकान् क्रामन्पदं पुरभिदोऽपि चकार कण्ठे ॥३६॥ रक्षोऽभिधावति तथेदमितोऽपि दन्ती शार्दूल एप मृगराडयमत्युदीर्णः । यातुः क्व ते कुशलमित्युदितः किरातान् बतेऽध्वगः खलन एव भयं न तेभ्यः ॥३७॥ हित्वा गृहान् वरमरण्यमहीमुपाद्भव-- मनीत वन्यमुपजीवत निझराम्भः । . वल्कं वसीध्वमपि किं तु भयंकराणि दूरेण वर्जयत दुर्जनतर्जनानि ॥३८॥
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy